________________
50
उपमितौ तृ. ३-प्र.
॥२५७॥
णलोचनेन स्फुरितमधरेण उच्छसितं हृदयेन रोमाञ्चितमङ्गेन गतमिवोद्वेगेन, ततो मया चिन्तितं-नूनं सैषा मम हृदयदयिता कनकमचरीत्युच्यते, सहर्षेण चाभिहितं-ततस्ततः, ततो लक्षितमदीयभावेन अहो प्रियनामोच्चारणमत्रसामर्थ्यमिति विचिन्त्य तेतलिनाअनुसन्दधानेन कपिजलावचनमिदमभिहितं-सा च मदीयस्तन्यपानेन संवर्धिता तेन मम सर्वस्वमिव शरीरमिव हृदयमिव जीवितमिव सा कनकमञ्जरी स्वरूपादव्यतिरेकिणी वर्तते अधुना पीड्यते सा वराकी मकरध्वजेन ततो यत्तस्या मीनकेतनायं तत्परमार्थतो ममैव भयमिति, तदिदमाकर्ण्य धा(वा)रयतस्तेतलेराकृष्य करवालमरेरे मन्मथहतक! मुञ्च मुञ्च मे प्रियां कनकमञ्जरी पुरुषो वा भव दुरात्मन् ! नास्त्यधुना ते जीवितमिति ब्रुवाणोऽहमुत्थितः शयनीयतलाद्वेगेन, तेतलिनाऽभिहितं-देव! अलमनेनावेगेन, न खलु सदये देवे कनकमञ्जर्या मदनहतकादन्यस्माद्वा सकाशाद्भयगन्धोऽपि, कथानकं चेदमतस्तच्छेषमप्याकर्णयतु देवः, ततस्तद्वचनेनाहं पुनः प्रत्यागतचेतनो मनाग् विलक्षीभूतो निषण्णः शय्यातले, तेतलिः प्राह-ततो मयाऽभिहितं-भद्रे कपिजले! किं पुनर्निमित्तमासाद्य तस्यां कनकमचर्या प्रभवति मदनहतकः, कपि जलयाऽभिहितं-आकर्णय, अस्ति तावदतीते दिने संपन्नं वधूहरणविडुरं, संजातो देवस्य कनकचूडस्य परैः सह महासंग्रामः, ततो लब्धपताकेषु नगरं प्रविशत्सु कनकचूडकनकशेखरनन्दिवर्धनेषु कुतूहलवशेनाहं गेहान्निर्गत्य स्थिता हट्टमार्गे, प्रविष्टेषु गता स्वामिनी भवनं, आरूढा चोपरितनभूमिकायां, तत्र च वातायने वर्तमाना राजमार्गाभिमुखनिःसारितवदनकमला निष्पन्दमन्दस्तिमितशून्यदृष्टिका चित्रविन्यस्तेव शैलघटितेव निष्पन्नयोगेव परमयोगिनी व्युपरताशेषाङ्गप्रत्यङ्गचलनचेष्टा दृष्टा मया कनकमजरी, ततो हा किमेतदितिविचिन्य ससम्भ्रमं पुत्रि! कनकमञ्जरीति पुनः पुनस्तामहमाहूतवती न च दत्तं मे मन्दभाग्यायास्तया प्र|त्युत्तरं, इतश्च तस्मिन्नवसरे तत्रासीत्कन्दलिका नाम दासदारिका, ततस्तां प्रति मयाऽभिहितं-भद्रे कन्दलिके! केन पुनर्हेतुना वत्सायाः
कनकमञ्जया उपचारारम्भः
॥२५७॥
%
Jain Education
p onal
For Private & Personel Use Only
vdjainelibrary.org