________________
COM
उपमिती तृ. ३-प्र.
॥२५६॥
बुद्धा तिष्ठसि यदि च देवस्य शरीरे मनागपि स्खलितं भविष्यति ततो नास्ति मे(ते) जीवितमिति, एवं क्रियमाणे देव! नियमादुपशाम्यत्येष चक्षुर्दोषः, तदिदमस्य भेषजं मया विज्ञातमिति, ततो विहस्य मयाऽभिहितं-भद्र तेतले ! पर्याप्तं परिहासेन, निवेद्यतां यद्यवधारितः कश्चिद्भवता निश्चित(तो)मदुःखविगमोपायः ?, तेतलिः प्राह-देव! किमलब्धदेवदुःखप्रतीकारा एव देवपादोपजीविनः कदाचिदपि देवस्य | पुरतः सोद्वेगे सति देवे सहर्ष जल्पितुमुत्सहन्ते ?, तस्मान्मा कुरुत विषादं सिद्धमेव देवसमीहितं, मया हि देवोद्वेगनिरासार्थमेवैष परिहासो विहितः, मयाऽभिहितं-वर्णय तर्हि कथं सिद्धमस्मत्समीहितम् ?, तेतलिः प्राह-देव ! विज्ञापितमिदमादावेव मया यथा मम प्रत्युषस्येव देवसमीपमागच्छतो बृहत्तमं प्रयोजनान्तरमापतितं तेन लवितो ममायं दिनार्धप्रहर इति, तद्देवसमीहितसिद्ध्यर्थमेव प्रयोजजनान्तरं, कथमन्यथा बृहत्तमत्वमस्योपपद्येत?, यतोऽस्ति मम परिचिता मलयमञ्जरीसम्बन्धिनी कपिञ्जला नाम वृद्धगणिका, सा मम | शयनादुत्तिष्ठतः पुरतः प्रविश्य मद्भवने वयस्य ! त्रायध्वं त्रायध्वमिति महता शब्देन पूत्कृतवती, ततोऽनुपलब्धभयकारणेन मयाऽभिहितं-भद्रे! कपिञ्जले कुतस्ते भयं?, तयाऽभिहितं-मीनकेतनादिति, मयाऽभिहितं-कपिञ्जले! अश्रद्धेयमिदं, यतोऽहमेवं तर्कयामि यदुत-कुङ्कुमरागपिङ्गलपलितचिताज्वालावलीभासुरं कटकटायमानास्थिपञ्जरशिवाशब्दभैरवं संकुचितवलीतिलकजालपिच्छलतातिभीषणं उ-| ल्लम्बितशवाकारलम्बमानातिस्थूलस्तनभयानकं अतिरौद्रमहाश्मशानविभ्रमं त्वदीयशरीरमिदमुपलभ्य नूनं कामः कातरनर इवाराटीदत्त्वा दूरतः प्रपलायते ततः कुतस्ते भयमिति?, कपिञ्जलयाऽभिहितं-अयि ! अलीकदुर्विदग्ध! न लक्षितस्त्वया मदीयोऽभिप्रायः तेनैवं ब्रवीषि, अतः समाकर्णय यथा मे मदनाद्भयमिति, मयाऽभिहितं तर्हि निवेदयतु भवती, सा प्राह-अस्ति तावद्विदितैव भवतो मलयमञ्जरी नाम मम स्वामिनी तस्याश्चास्ति कनकमञ्जरी नाम दुहिता, अत्रान्तरे तेतलिना कनकमञ्जरीनामग्रहणादेव सन्दितं मे दक्षि
कपिञ्जलोदितवृत्तान्तोक्तिः
॥२५६॥
Jain Education in
For Private & Personel Use Only
anelibrary.org