SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ COM उपमिती तृ. ३-प्र. ॥२५६॥ बुद्धा तिष्ठसि यदि च देवस्य शरीरे मनागपि स्खलितं भविष्यति ततो नास्ति मे(ते) जीवितमिति, एवं क्रियमाणे देव! नियमादुपशाम्यत्येष चक्षुर्दोषः, तदिदमस्य भेषजं मया विज्ञातमिति, ततो विहस्य मयाऽभिहितं-भद्र तेतले ! पर्याप्तं परिहासेन, निवेद्यतां यद्यवधारितः कश्चिद्भवता निश्चित(तो)मदुःखविगमोपायः ?, तेतलिः प्राह-देव! किमलब्धदेवदुःखप्रतीकारा एव देवपादोपजीविनः कदाचिदपि देवस्य | पुरतः सोद्वेगे सति देवे सहर्ष जल्पितुमुत्सहन्ते ?, तस्मान्मा कुरुत विषादं सिद्धमेव देवसमीहितं, मया हि देवोद्वेगनिरासार्थमेवैष परिहासो विहितः, मयाऽभिहितं-वर्णय तर्हि कथं सिद्धमस्मत्समीहितम् ?, तेतलिः प्राह-देव ! विज्ञापितमिदमादावेव मया यथा मम प्रत्युषस्येव देवसमीपमागच्छतो बृहत्तमं प्रयोजनान्तरमापतितं तेन लवितो ममायं दिनार्धप्रहर इति, तद्देवसमीहितसिद्ध्यर्थमेव प्रयोजजनान्तरं, कथमन्यथा बृहत्तमत्वमस्योपपद्येत?, यतोऽस्ति मम परिचिता मलयमञ्जरीसम्बन्धिनी कपिञ्जला नाम वृद्धगणिका, सा मम | शयनादुत्तिष्ठतः पुरतः प्रविश्य मद्भवने वयस्य ! त्रायध्वं त्रायध्वमिति महता शब्देन पूत्कृतवती, ततोऽनुपलब्धभयकारणेन मयाऽभिहितं-भद्रे! कपिञ्जले कुतस्ते भयं?, तयाऽभिहितं-मीनकेतनादिति, मयाऽभिहितं-कपिञ्जले! अश्रद्धेयमिदं, यतोऽहमेवं तर्कयामि यदुत-कुङ्कुमरागपिङ्गलपलितचिताज्वालावलीभासुरं कटकटायमानास्थिपञ्जरशिवाशब्दभैरवं संकुचितवलीतिलकजालपिच्छलतातिभीषणं उ-| ल्लम्बितशवाकारलम्बमानातिस्थूलस्तनभयानकं अतिरौद्रमहाश्मशानविभ्रमं त्वदीयशरीरमिदमुपलभ्य नूनं कामः कातरनर इवाराटीदत्त्वा दूरतः प्रपलायते ततः कुतस्ते भयमिति?, कपिञ्जलयाऽभिहितं-अयि ! अलीकदुर्विदग्ध! न लक्षितस्त्वया मदीयोऽभिप्रायः तेनैवं ब्रवीषि, अतः समाकर्णय यथा मे मदनाद्भयमिति, मयाऽभिहितं तर्हि निवेदयतु भवती, सा प्राह-अस्ति तावद्विदितैव भवतो मलयमञ्जरी नाम मम स्वामिनी तस्याश्चास्ति कनकमञ्जरी नाम दुहिता, अत्रान्तरे तेतलिना कनकमञ्जरीनामग्रहणादेव सन्दितं मे दक्षि कपिञ्जलोदितवृत्तान्तोक्तिः ॥२५६॥ Jain Education in For Private & Personel Use Only anelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy