________________
५८२
उपमिती तृ. ३-प्र.
COLLEG
| तेतलिसमागमः
॥२५५॥
ततो मया चिन्तितं-अहो अस्य मयि भक्तिप्रकर्षः अहो वचनकौशलं, युज्यत एवास्मै सद्भावः कथयितुं, तथापि वामशीलतया मदनविकारस्य मयाऽभिहितं-भद्र तेतले! न जाने किमत्र कारणं? केवलं यतः प्रभृति हट्टमार्गमतिक्रम्य समानीतस्त्वया रथो राजकुलाभ्यर्णे धारितस्तत्र कियन्तमपि क्षणं तदारात्सर्वाणि मे विलीयन्तेऽङ्गानि प्रवर्धतेऽन्तस्तापः ज्वलतीव भुवनं न सुखायन्ते जनोल्लापाः आविर्भवति रणरणकः समुद्भूतालीकचिन्ता शून्यमिव हृदयं ततोऽहमस्य दुःखस्यालब्धपरित्राणोपायः खल्वेवं स्थित इति, ततः सहर्षेण तेतलिनाभिहितं—देव ! यद्येवं ततो विज्ञातं मयाऽस्य दुःखस्य निदानमौषधं च, न विषादः कर्तव्यो देवेन, मयाऽभिहितं कथं ?, तेतलिः पाह-समाकर्णय, निदानं तावदस्य दुःखस्य चक्षुर्दोषः, मयोक्तं-कस्य सम्बन्धी ?, तेतलिः प्राह न जाने किमसौ लक्षिता न वा देवेन?, मया पुनर्बहती वेलां निरूपिता तत्र राजकुलपर्यन्तवर्तिनि प्रासादे वर्तमाना काचिद् बृहद्दारिका देवमर्धतिरश्चीनेनेक्षणयुगलेन साभि| निवेशमङ्गप्रत्यङ्गतो निरूपयन्ती, तनिश्चितमेतत्तस्या एव सम्बन्धी चक्षुर्दोषोऽयं, यतो देव ! अतिविषमा विषमशीलानां दृष्टिर्भवति, ततो मया चिन्तितं-वष्टः खल्वेष तेतलिः बुद्धोऽनेन मदीयभावः विलोकिता सा चिरमनेन अतः पुण्यवानयं, यतश्च वदत्येष यथा लब्धं मया तवास्य दुःखस्य भेषजमिति ततः संपादयिष्यति नूनं तां मदनज्वरहरणमूलिका कन्यकामेष मे, तस्मात्प्राणनाथो ममायं वर्तत इति विचिन्त्य समारोपितो बलात्पर्यङ्के तेतलिः, अभिहितश्च–साधु भोः! साधु सुष्टु विज्ञातं भवता मदीयरोगनिदानं इदानीमौषधमस्य नि| वेदयतु भद्रः, तेतलिनाऽभिहितं देव! इदमत्र चक्षुषे भेषजं, यदुत-निपुणवृद्धनारीभिः कार्यतां सम्यग् लवणावतारणकं विधीयतां मत्रकुशलैरपमार्जनं लिख्यन्तां रक्षाः निबध्यन्तां कण्डकानि अनुशील्यन्तां भूतिकर्माणि, अन्यच्च-शाकिन्यपि किल प्रत्युच्चारिता न प्रभवतीतिकृत्वा गत्वा निष्ठुरवचनैर्गाहें निर्भय॑तां सा दारिका यदुत-हे वामलोचने! निरीक्षितस्त्वया विषमदृष्ट्या देवः ततस्त्वं ज्ञाता
ALORER
॥२५५॥
Jain Education
a
l
For Private Personel Use Only
D
ainelibrary.org