________________
उपमिती तृ. ३-प्र.
॥२५४॥
शून्यमनस्को विधाय दिवसोचितं कर्तव्यमारूढोऽहमुपरितनभूमिकायां, ततः प्रस्थाप्य समस्तं परिजनमेकाकी निषण्णः शय्यायां, तस्या नन्दिवर्धचापरापरैः कनकमजरीगोचरैर्वितर्ककल्लोलैर्विधुरितचेतोवृत्तिर्न जानामि स्माहं यदुत–किमागतोऽस्मि ? किं गतोऽस्मि ? किं तत्रैव स्थि- नस्य विरतोऽस्मि ! किमेककोऽस्मि ? किं परिजनवृतोऽस्मि ? किं सुप्तोऽस्मि ? किं वा जागर्मि ? किं रोदिमि ? किं वा न रोदिमि ? किं दुःखमिदं ?
हावस्था किं वा सुखमिदं ? किमुत्कण्ठकोऽयं? किं वा व्याधिरयं ? किमुत्सवोऽयं ? किं वा व्यसनमिदं? किं दिनमिदं ? किं वा रजनीयं? किं मृतो| ऽस्मि ? किं वा जीवामीति, कचिदीपल्लब्धचेतनः पुनश्चिन्तयामि-अये! क गच्छामि ? किं करोमि ? किं शृणोमि ? किं पश्यामि ? किमालपामि ? कस्य कथयामि ? कोऽस्य मे दुःखस्य प्रतीकारो भविष्यतीति, एवं च पर्याकुलचेतसो निषिद्धाशेषपरिजनस्यापरापरपार्श्वेण शरीरं परावर्तयतो महानारकस्येव तीव्रदुःखेनालब्धनिद्रस्यैव लङ्घिता सा रजनी समुद्गतोऽशुमाली गतस्तथैव तिष्ठतो मेऽर्धप्रहरः, अत्रान्तरे समागतस्तेतलिः अतिवल्लभतया मे न वारितः केनापि प्राप्तो मत्समीपं कृतमनेन पादपतनं निषण्णो भूतले, विरचितकरमुकुलेन चाभिहितमनेन-देव! नीचजनसुलभेन चापलेन किञ्चिद्देवं विज्ञापयिष्यामि तच्चार्वचारु वा सोढुमर्हति देवः, मयाऽभिहितं-भद्र तेतले! तेतलिसविश्रब्धं वद किमियत्या कूर्चशोभया?, तेतलिनाऽभिहितं यद्येवं ततो मया देव ! परिजनादाकर्णितं यथा रथादवतीर्य देवो न ज्ञायते कि- मागमः |मत्र कारणं सोद्वेग इव निषिद्धाशेषपरिजनः सचिन्तः शयनीये विवर्तमानस्तिष्ठति ?, इतश्च स्यन्दनाश्वानां तृप्तिं कारयतो लवितोऽतीतदि-15 नशेषः, ततो रात्रौ समुत्पन्ना मे चिन्ता यदुत-किं पुनर्देवस्योद्वेगकारणं भविष्यति ?, ततस्तदलक्षयतश्चिन्ताविधुरस्य जाग्रत एव मे विभाता रजनी, ततो यावदुत्थाय किलेहागच्छामि तावद्वृहत्तमं प्रयोजनान्तरमापतितं तेनातिवाह्येयती वेलामहमागत इत्यतो निवेदयतु देवः
॥२५४॥ प्रसादेन शरीरकुशलवार्तामात्रायत्तजीविताय किङ्करापसदायास्मै जनाय यदस्य व्यतिकरस्य कारणमितिब्रुवाणः पतितो मञ्चरणयोस्तेतलिः,
Jain Educa
t ional
For Private & Personel Use Only
O
w.jainelibrary.org