SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-अ. ॥२५३॥ चरः॥ ११ ॥ तथापि प्रियया नूनं, ममेदं हन्त हिंसया । सर्व संपादितं मन्ये, कृतमालोकनं यया ॥ १२ ॥ अहो प्रभावो हिंसाया, अहो मय्यनुरक्तता। अहो कल्याणकारित्वमहो सर्वगुणाढ्यता ।। १३ ॥ यादृशी वर्णिता पूर्व, वरमित्रेण मे प्रिया । एषा वैश्वानरेणोच्चैस्तादृश्येव न संशयः ॥ १४ ॥ तस्यागृहीतसङ्केते !, वृत्तान्तस्यात्र कारणम् । स मे पुण्योदयो नाम, वयस्यः परमार्थतः ।। १५ । केव-| लम् तदा न लक्षयाम्येवमहं पापहतात्मकः । यथा पुण्योदयाज्जातं, ममेदं सर्वमजसा ॥ १६ ॥ ततश्च-एवंविधविकल्पेनाहं वैश्वानर-1 हिंसयोः । अत्यन्तमनुरक्तात्मा, न जानामि स्म किञ्चन ॥ १७ ॥ इतश्च हट्टमार्गेण, मामकीनरथस्तदा । प्राप्तो राजकुलाभ्यर्णे, कृतलोकचमत्कृतिः ॥१८॥ अथास्ति सु(ब्रह्मनाथस्य, दुहिता जयवर्मणः। प्रिया कनकचूडस्य, देवी मलयमञ्जरी ॥१९॥ तस्याश्च भुवनाभोग- कनकमञ्जसर्वसौन्दर्यमन्दिरम् । अस्ति मन्मथमजूषा, कन्या कनकमञ्जरी ।। २० ॥ सा स्यन्दनस्थं गच्छन्तं, वातायनसुसंस्थिता । मां दृष्ट्वा पञ्च-18 रीप्रणयः बाणस्य, शरगोचरमागता ॥ २१ ॥ कुतूहलवशेनाथ, वीक्षमाणेन सर्वतः। गवाक्षे लीलया दृष्टिमया तत्र निपातिता ॥ २२ ।। ततः कनकमचर्या, लोललोचनमीलिता । क्षणं सा मामिका दृष्टिश्चलति स्म न कीलिता ।। २३ ।। सापि तां मामिकां दृष्टिं, पिबन्ती स्तिमितेक्षणा । स्वेदकम्पनरोमाञ्चैय॑क्तकामा क्षणं स्थिता ।। २४ ।। मम तस्याश्च सानन्दं, दृष्टिसंयोगदीपितम् । मदीयसारथिर्भावं, तेतलिस्तमलायत ॥ २५ ॥ ततश्चिन्तितं तेतलिना-अये! रतिमकरकेतनयोरिवातिसुन्दरोऽयमनयोरनुरागविशेषः, केवलं महाजनसमक्षमेवमनिमेषाक्षतया निरीक्षमाणस्यैनां हीनसत्त्वतया लाघवमस्य संपत्स्यते रत्नवत्याश्च कदाचिदीर्ध्या संपद्येत ततो न मे युक्तमुपेक्षितुमिति ततः | काकलीं कृत्वा चोदितस्तेतलिना स्यन्दनः, ततोऽहं लावण्यामृतपकमग्नामिव कपोलपुलककण्टकलग्नामिव मदनशरशलाकाकीलितामिव तदी-13 |२५३ ॥ यसौभाग्यगुणस्यूतामिव कनकमञ्जरीवदनकमावलोकनात् कथश्विदृष्टिमाकृष्य तस्यामेव निक्षिप्तहृदयः प्राप्तः क्रमेण निजमन्दिरं, तत्र च उ. भ. २२ Jain Education a l For Private & Personel Use Only www.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy