SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥२५२॥ अवाप्तजययोनंगरप्रवेशः हर्षकलकलः, ततो निवार्य तं वायुदानसलिलाभ्युक्षणादि भिराश्वासितो विभाकरः कनकशेखरेण, अभिहितश्च–साधु भो नरेन्द्रतनय ! | साधु न मुक्तो भवता पुरुषकारः नाङ्गीकृतो दीनभावः समुज्वालिता पूर्वपुरुषस्थितिः लेखितमात्मीयं शशधरे नामकं, तदुत्थाय पुनर्योद्धमहति राजसूनुः, ततोऽहो अस्य महानुभावता अहो गम्भीरता अहो पुरुषातिरेकः अहो वचनातिरेकः इति चिन्तयता विभाकरेणाभिहितं—आर्य! अलमिदानी युद्धेन, निर्जितोऽहं भवता न केवलं खङ्गेन, किं तर्हि ? चरितेनापि, ततः परमबन्धुवत् स्वयं निवेशितो विभाकरः स्वकीयस्यन्दने कनकशेखरेण समाहादितो मधुरवचनैः उपसंहृतमायोधनं, गतं पदातिभावं सर्वमपि परसैन्यं कनकशेखरस्य, दृष्टे भयातिरेकप्रकम्पमानगात्रयष्टी विमलाननारत्नवत्यौ, समानन्दिते पेशलवाक्यैः, स्थापिते निजभर्तृस्यन्दनयोः कनकचूडेन, ततो लब्ध|जयतया हर्षपरिपूर्णा वयं कुशावर्तपुरे प्रवेष्टुमारब्धाः, कथम् ?, पुरतः कुञ्जरारूढो, राजा देवेन्द्रसन्निभः । ददद्दानं यथाकामं, प्रविष्टो निजमन्दिरे ॥ १॥ तत्र प्रमुदिताशेषलोकलोचनवीक्षितः । पुरं प्रविश्य खे गेहे, गतः कनकशेखरः ॥ २॥ ततो रत्नवतीयुक्तः, स्यन्दनस्थः शनैः शनैः । यावद्गच्छामि तत्राहं, निजावासकसम्मुखम् ॥ ३ ॥ तावदेते समुल्लापाः, प्रवृत्ताः पुरयोषिताम् । जयश्रिया परीताङ्गे, मयि सस्पृहचेतसाम् ॥ ४ ॥ जगत्यप्रतिमल्लोऽपि, येनासौ विनिपातितः । द्रुमः समरसेनश्च, स सोऽयं नन्दिवर्धनः ॥ ५ ॥ अहो धैर्यमहो वीर्यमहो दाक्ष्यमहो गुणाः । अस्य नूनं न मोऽयं, देवोऽयं नन्दिवर्धनः ॥ ६ ॥ इयं रत्नवती धन्या, याऽस्य भार्या महात्मनः । धन्या वयमपि ह्येष, यासां दृष्टिपथं गतः ॥ ७ ॥ अथवा सर्वमेवेदमहो धन्यतमं पुरम् । अचिन्त्यसाहसाढ्येन, यदनेन विभूषितम् ॥८॥ ततस्तास्तादृशीर्वाचः, शृण्वतो मम मानसे । महामोहात्समुत्पन्नो, वितर्कोऽयमभूद्भशम् ॥ ९॥ ममायमीदृशो लोके, प्रवादोऽयन्तदुलभः । यः संजातो महानन्दहेतुरुन्नतिकारकः॥१०॥ तस्या(त्रा)स्य कारणं तावद्वयस्यो हितकारकः । एष वैश्वानरोऽस्त्येव, नात्र सन्देहगो का ॥ २५२॥ Jain Education a For Private & Personel Use Only Mainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy