SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥२५२॥ अवाप्तजययोनंगरप्रवेशः हर्षकलकलः, ततो निवार्य तं वायुदानसलिलाभ्युक्षणादि भिराश्वासितो विभाकरः कनकशेखरेण, अभिहितश्च–साधु भो नरेन्द्रतनय ! | साधु न मुक्तो भवता पुरुषकारः नाङ्गीकृतो दीनभावः समुज्वालिता पूर्वपुरुषस्थितिः लेखितमात्मीयं शशधरे नामकं, तदुत्थाय पुनर्योद्धमहति राजसूनुः, ततोऽहो अस्य महानुभावता अहो गम्भीरता अहो पुरुषातिरेकः अहो वचनातिरेकः इति चिन्तयता विभाकरेणाभिहितं—आर्य! अलमिदानी युद्धेन, निर्जितोऽहं भवता न केवलं खङ्गेन, किं तर्हि ? चरितेनापि, ततः परमबन्धुवत् स्वयं निवेशितो विभाकरः स्वकीयस्यन्दने कनकशेखरेण समाहादितो मधुरवचनैः उपसंहृतमायोधनं, गतं पदातिभावं सर्वमपि परसैन्यं कनकशेखरस्य, दृष्टे भयातिरेकप्रकम्पमानगात्रयष्टी विमलाननारत्नवत्यौ, समानन्दिते पेशलवाक्यैः, स्थापिते निजभर्तृस्यन्दनयोः कनकचूडेन, ततो लब्ध|जयतया हर्षपरिपूर्णा वयं कुशावर्तपुरे प्रवेष्टुमारब्धाः, कथम् ?, पुरतः कुञ्जरारूढो, राजा देवेन्द्रसन्निभः । ददद्दानं यथाकामं, प्रविष्टो निजमन्दिरे ॥ १॥ तत्र प्रमुदिताशेषलोकलोचनवीक्षितः । पुरं प्रविश्य खे गेहे, गतः कनकशेखरः ॥ २॥ ततो रत्नवतीयुक्तः, स्यन्दनस्थः शनैः शनैः । यावद्गच्छामि तत्राहं, निजावासकसम्मुखम् ॥ ३ ॥ तावदेते समुल्लापाः, प्रवृत्ताः पुरयोषिताम् । जयश्रिया परीताङ्गे, मयि सस्पृहचेतसाम् ॥ ४ ॥ जगत्यप्रतिमल्लोऽपि, येनासौ विनिपातितः । द्रुमः समरसेनश्च, स सोऽयं नन्दिवर्धनः ॥ ५ ॥ अहो धैर्यमहो वीर्यमहो दाक्ष्यमहो गुणाः । अस्य नूनं न मोऽयं, देवोऽयं नन्दिवर्धनः ॥ ६ ॥ इयं रत्नवती धन्या, याऽस्य भार्या महात्मनः । धन्या वयमपि ह्येष, यासां दृष्टिपथं गतः ॥ ७ ॥ अथवा सर्वमेवेदमहो धन्यतमं पुरम् । अचिन्त्यसाहसाढ्येन, यदनेन विभूषितम् ॥८॥ ततस्तास्तादृशीर्वाचः, शृण्वतो मम मानसे । महामोहात्समुत्पन्नो, वितर्कोऽयमभूद्भशम् ॥ ९॥ ममायमीदृशो लोके, प्रवादोऽयन्तदुलभः । यः संजातो महानन्दहेतुरुन्नतिकारकः॥१०॥ तस्या(त्रा)स्य कारणं तावद्वयस्यो हितकारकः । एष वैश्वानरोऽस्त्येव, नात्र सन्देहगो का ॥ २५२॥ Jain Education a For Private & Personel Use Only Mainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy