SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः CROSSHA ॥२२॥ SUSISUSTUS ॥७४ ॥ एष एव ममादेशो, यत्तदादेशवर्त्तनम् । तस्यै न रोचते यस्तु, नैव मह्यं स रोचते ॥ ७५ ॥ अनेककार्ययुक्तापि, तहया कचिदेत्य ते । प्रतिजागरणं भद्र !, करिष्यत्यन्तराऽन्तरा ॥ ७६ ॥ केवलं परमार्थस्ते, कथ्यते हितकाम्यया । सद्बुद्धौ सततं यत्नः, कर्त्तव्यः सुखमिच्छता ॥ ७७ ॥ ये मूढाः सम्यगाराध्य, सप्रसादां न कुर्वते । एनां तेषां न राजेन्द्रो, नाहं नान्यः प्रसीदति ॥ ७८ ॥ अप्रसादहता नित्यं, जायन्ते दुःखभाजनम् । ते यतोऽन्यो न लोकेऽपि, हेतुरस्ति सुखप्रदः ॥ ७९ ॥ स्वाधीना वर्त्तते यस्माहूरस्था मद्विधादयः । तवेयं सुखहेतुत्वे, तस्मादाराद्भुमर्हसि ।। ८० ॥ एवं भवतु तेनोक्ते, कृता सा परिचारिका । ततःप्रभृति निश्चिन्तो, धर्मबोधकरोऽभवत् ॥ ८१ ॥ यावदास्ते दिनान्येषा, कतिचित्तस्य पार्श्वगा । तावद्यत्तत्र संपन्नं, तदिदानी निबोधत ॥ ८२ ॥ अतिलौल्येन यः पूर्व, खादन्नपि न तृप्यति । कदन्नं भूरि नैवात्ति, तस्य चिन्तापि तद्गता ॥ ८३ ॥ पूर्वाभ्यासात् कचिद्भुङ्क्ते, केवलं तृप्तिकारणम् । जायते न च तत्स्वास्थ्यं, | विहन्याद् गृद्ध्यभावतः ॥ ८४॥ योऽकार्षीदुपरोधेन, महता भेषजत्रयम् । स्वयं तस्य बलात्तस्मिन, अभिलाषोऽभिवर्द्धते ॥ ८५॥ अहिते | गृद्ध्यभावेन, हिते चाभिनिवेशतः । यत्तदा तस्य संपन्नं, तच्चेदमभिधीयते ॥ ८६ ॥ बाधन्ते नैव ते रोगाः, शरीरं जाततानवाः । याऽपि पीडा भवेत् कापि, साऽपि शीघ्रं निवर्त्तते ॥ ८७ ॥ विज्ञातश्च सुखास्वादो, नष्टा बीभत्सरूपता । गाढं च वर्त्तते तोषः, स्वस्थत्वात्तस्य चेतसि ॥ ८८॥ अन्यदाऽत्यन्तहृष्टेन, मनसा रहसि स्थितः । सद्बुद्ध्या सार्द्धमेवं स, जल्पति स्म निराकुलः ॥ ८९॥-भद्रे! किमिदमाश्चर्य, शरीरे मम वर्तते । एतहुःखाकरं पूर्व, यत्सुखाकरतां गतम् ? ॥ ९० ॥ सा प्राह ज्ञातमेतत्ते, सम्यक्पथ्यनिषेवणात् । समस्तदोषमूलेऽस्मिन्नहिते लौल्यवर्जनात् ॥ ९१ ॥ मत्सान्निध्याच्च ते भद्र!, भुखानस्य कदन्नकम् । प्रागभ्यासवशाच्चित्ते, लज्जाऽत्यर्थ प्रजायते ॥ ९२ ।। १ त्रये. २ तचैतद. पा. तद्दयापरिचारणात्स्वास्थ्य ३८२-४०३ ॥२२॥ IRIOR Jain Educati onal For Private & Personel Use Only Thjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy