SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः CROSSHA ॥२२॥ SUSISUSTUS ॥७४ ॥ एष एव ममादेशो, यत्तदादेशवर्त्तनम् । तस्यै न रोचते यस्तु, नैव मह्यं स रोचते ॥ ७५ ॥ अनेककार्ययुक्तापि, तहया कचिदेत्य ते । प्रतिजागरणं भद्र !, करिष्यत्यन्तराऽन्तरा ॥ ७६ ॥ केवलं परमार्थस्ते, कथ्यते हितकाम्यया । सद्बुद्धौ सततं यत्नः, कर्त्तव्यः सुखमिच्छता ॥ ७७ ॥ ये मूढाः सम्यगाराध्य, सप्रसादां न कुर्वते । एनां तेषां न राजेन्द्रो, नाहं नान्यः प्रसीदति ॥ ७८ ॥ अप्रसादहता नित्यं, जायन्ते दुःखभाजनम् । ते यतोऽन्यो न लोकेऽपि, हेतुरस्ति सुखप्रदः ॥ ७९ ॥ स्वाधीना वर्त्तते यस्माहूरस्था मद्विधादयः । तवेयं सुखहेतुत्वे, तस्मादाराद्भुमर्हसि ।। ८० ॥ एवं भवतु तेनोक्ते, कृता सा परिचारिका । ततःप्रभृति निश्चिन्तो, धर्मबोधकरोऽभवत् ॥ ८१ ॥ यावदास्ते दिनान्येषा, कतिचित्तस्य पार्श्वगा । तावद्यत्तत्र संपन्नं, तदिदानी निबोधत ॥ ८२ ॥ अतिलौल्येन यः पूर्व, खादन्नपि न तृप्यति । कदन्नं भूरि नैवात्ति, तस्य चिन्तापि तद्गता ॥ ८३ ॥ पूर्वाभ्यासात् कचिद्भुङ्क्ते, केवलं तृप्तिकारणम् । जायते न च तत्स्वास्थ्यं, | विहन्याद् गृद्ध्यभावतः ॥ ८४॥ योऽकार्षीदुपरोधेन, महता भेषजत्रयम् । स्वयं तस्य बलात्तस्मिन, अभिलाषोऽभिवर्द्धते ॥ ८५॥ अहिते | गृद्ध्यभावेन, हिते चाभिनिवेशतः । यत्तदा तस्य संपन्नं, तच्चेदमभिधीयते ॥ ८६ ॥ बाधन्ते नैव ते रोगाः, शरीरं जाततानवाः । याऽपि पीडा भवेत् कापि, साऽपि शीघ्रं निवर्त्तते ॥ ८७ ॥ विज्ञातश्च सुखास्वादो, नष्टा बीभत्सरूपता । गाढं च वर्त्तते तोषः, स्वस्थत्वात्तस्य चेतसि ॥ ८८॥ अन्यदाऽत्यन्तहृष्टेन, मनसा रहसि स्थितः । सद्बुद्ध्या सार्द्धमेवं स, जल्पति स्म निराकुलः ॥ ८९॥-भद्रे! किमिदमाश्चर्य, शरीरे मम वर्तते । एतहुःखाकरं पूर्व, यत्सुखाकरतां गतम् ? ॥ ९० ॥ सा प्राह ज्ञातमेतत्ते, सम्यक्पथ्यनिषेवणात् । समस्तदोषमूलेऽस्मिन्नहिते लौल्यवर्जनात् ॥ ९१ ॥ मत्सान्निध्याच्च ते भद्र!, भुखानस्य कदन्नकम् । प्रागभ्यासवशाच्चित्ते, लज्जाऽत्यर्थ प्रजायते ॥ ९२ ।। १ त्रये. २ तचैतद. पा. तद्दयापरिचारणात्स्वास्थ्य ३८२-४०३ ॥२२॥ IRIOR Jain Educati onal For Private & Personel Use Only Thjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy