________________
उपमितौ पीठबन्धः
॥ २१ ॥
Jain Educatio
रोगा यान्त्यस्य तानवम् । न जायतेऽधिका पीडा, लगत्य च भेषजम् ॥ ५७ ॥ केवलं सा यदाऽभ्यर्णे, तदा पथ्येन तिष्ठति । अपध्यमल्पमश्नाति जायते तेन याप्येता ॥ ५८ ॥ यदा तु सा विदूरस्था, लाम्पट्यात्तत्कदन्नकम् । भूरि निर्भेषजं सोऽत्ति, तेनाजीर्णेन पीड्यते ॥ ५९ ॥ इतश्च तद्दया तेन, धर्मबोधकरेण सा । प्रागेवाशेषलोकस्य, पालकत्वे नियोजिता ॥ ६० ॥ साऽनन्तसत्त्वसङ्घातव्यापारकरणोद्यता । तन्मूले कचिदेवाऽऽस्ते, शेषकालं से मुत्कलः ॥ ६१ ॥ अपध्यमक्षणाऽऽसक्तः, स केनचिदवारितः । विकारैर्बाध्यते भूयस्ते दरास्ते च मेण्ढकाः ॥ ६२ ॥ कदाचित्पीडितो दृष्टो, धर्मबोधकरेण सः । सोऽवादीत् किमिदं ? भद्र !, स चाशेषं न्यवेदयत् ॥ ६३ ॥ इयं हि तद्दया नित्यं, न मत्पार्श्वेऽवतिष्ठते । तद्वैकल्याच मे रोगाः प्रभवन्ति विशेषतः ॥ ६४ ॥ तस्मान्नाथास्तथा यूयं कुरुध्वं यत्नमुत्तमम् । यथा पीडा न मे देहे, स्वप्नान्तेऽप्युपजायते ॥ ६५ ॥ स प्राह वत्स ! ते पीडा, जायतेऽपथ्यसेवनात् । इयं तु तद्दया व्यग्रा, कर्मान्तरनियोगतः ॥ ६६ ॥ या वारणं विधत्ते ते, सदैवापध्यमश्नतः । यदि स्यात्तादृशी काचित् क्रियते परिचारिका ॥ ६७ ॥ केवलं त्वमनात्मज्ञः, पथ्यसेवापराङ्मुखः । कदन्नभक्षणोद्युक्तस्तस्य किं करवाणि ते ? ॥ ६८ ॥ इतरस्त्वाहमा मैवं, नाथा ! वदत साम्प्रतम् । नैवाहं युष्मदादेशं, लक्ष्यामि कथञ्चन ।। ६९ ।। तदाकर्ण्य मनाग् ध्यात्वा, क्षणमात्रमवोचत । धर्मबोधकरस्तस्मै, हितायोद्यतमानसः | ॥ ७० ॥ अस्ति मे वचनायत्ता, सद्बुद्धिर्नाम दारिका । तां ते करोमि निर्व्ययां, विशेषपरिचारिकाम् ॥ ७१ ॥ सा हि संनिहिता नित्यं, पथ्यापथ्यविवेचिका । तुभ्यमेव मया दत्ता, मा कार्षीश्चित्तवैक्लवम् ॥ ७२ ॥ केवलं सा विशेषज्ञा, वैपरीत्यविधायिनाम् । अनादरवतां पुंसां, नोपकाराय वर्त्तते ॥ ७३ ॥ यदि तेऽस्ति सुखाकाङ्क्षा, दुःखेभ्यो यदि ते भयम् । ततः सा वक्ति यत्किञ्चित् कर्त्तुं युक्तं तदेवे ते
।
१ गुणं विदधाति २ यापना. प्र. ३ कदनेन. ४ रोरः. ५ सदैव प्र.
ational
For Private & Personal Use Only
तद्दयापरिचारणी
३६३ - ३८१
॥ २१ ॥
jainelibrary.org