SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥२०॥ गाद्गुणाअपथ्यसेवनाद्दो पाश्च ३४०-३६२ |बहु । भुक्त्वाऽल्पं हेलया शेषं, कर्परे निदधाति सः ।। ३९ ॥ तत्सांनिध्यगुणात्तच्च, तस्यान्नं संप्रवर्द्धते । अदतोऽहर्निशं तस्मान्निष्ठां नैव | प्रपद्यते ॥ ४०॥ ततो गाढतरं तुष्टो, वृद्धिं दृष्ट्वा स्वभोजने । न चासौ तद्विजानीते, यन्माहात्म्येन वर्द्धते ॥ ४१ ॥ केवलं तत्र गृद्धात्मा, त्रितये शिथिलादरः । जानन्नपि न जानाति, कालं नयति मोहितः॥ ४२ ॥ अहर्निशमपथ्यं तद्भुञ्जानः कुक्षिमानतः । त्रितयेऽनादरा स्वादी, न रोगोच्छेदभाजनम् ॥ ४३ ॥ तावन्मात्रेण भुक्तेन, किन्तु तस्य गुणो महान् । कुतस्त्रयेण ते रोगा, आनीता तेर्ने याप्यताम् ४॥४४॥ तथाप्यात्मज्ञताऽभावादुल्वणत्वादपथ्यतः । क्वचिद्विकारमात्मीयं दशर्यन्ति शरीरके ॥ ४५ ॥ कचिच्छूलं कचिद्दाहः, कचि न्मूी कचिज्ज्वरः । कचिच्छर्दिः कचिजाड्यं, कचिद् हृत्पार्श्ववेदना ॥ ४६॥ कचिदुन्मादसन्तापः, पथ्ये कचिदरोचकः । तै रोगैर्वि| क्रियापन्नैः, शरीरस्य प्रजायते ॥ ४७ ॥ युग्मम् । कदाचित्तद्दया दृष्ट्वा, तं विकारैरुपद्रुतम् । आक्रन्दन्तं कृपोपेता, संचिन्त्येत्थमभाषत ।। ४८॥-कथितं तात! तातेन, यदन्नं तव वल्लभम् । एतन्निमित्तकाः सर्वे, रोगास्तवशरीरके ॥ ४९ । तथापि दृष्टवृत्तान्ता, मा भूदाकुलता तव । तद्भक्षयन्तं दृष्ट्वाऽपि, भवन्तं नैव वारये ॥ ५० ॥ परमस्वास्थ्यहेतौ ते, शैथिल्यं भेषजत्रये । एतत्तु रोचते तुभ्यं, सर्वसन्तापकारणम् ।। ५१ ॥ अधुना क्रन्दतो नास्ति, हेतुः स्वास्थ्यस्य कारकः । अपथ्येऽत्यर्थं सक्तानां, न लगत्येव भेषजम् ।। ५२ ॥ अपवादो ममाप्यत्र, यतस्ते परिचारिका । प्रत्यहं न च शक्नोमि, कर्तुं स्वास्थ्यं तवाधुना ॥५३॥ इतरः प्राह-यद्येवं, वारणीयस्त्वयाऽमुतः । अभिलाषातिरेकेण, न त्यक्तुं स्वयमुत्सहे ॥ ५४ ॥ कदाचित्त्वत्प्रभावेण, स्तोकस्तोकं विमुञ्चतः । सर्वत्यागेऽपि शक्तिमें, कदन्नस्य भविप्यति ॥ ५५ ॥ साधु साधूदितं भंद्र!, युक्तमेतद्भवादृशाम् । इत्युक्त्वाऽधिकमश्नन्तं, सा कदन्नं न्यवारयत् ॥ ५६ ॥ ततस्तत्परिहारेण, १ यावत्तृप्ति. २ अनादरेण खादकः. ३ ततः ४ भैषजत्रयेण. ५ वश्यताम्. ६ अपभ्यस्य. ७ वत्स प्र. ॥२०॥ Jain Educatio n For Private & Personel Use Only ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy