SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः रोचते चित्ते, प्रयुक्तं गुणकारकम् । अक्लेशतो विशेषेण, ते सुसाध्याः प्रकीर्तिताः ॥ २३ ॥ ये नादितः प्रपद्यन्ते, बलायेषां विगाल्यते । कालक्षेपेण ते ज्ञेयाः, कृच्छ्रसाध्यास्त्वयाऽनुगाः ॥ २४ ॥ येभ्यो न रोचतेऽत्यर्थ, न कामति नियोजितम् । द्वेष्टारो दायकेऽप्यस्य, ते त्वसाध्या नराधमाः ॥ २५ ॥ तदेतद्राजराजेन, मम यत्सम्प्रदायितम् । तेन ते कृच्छ्रसाध्यत्वं, लक्षणेन विभाव्यते ॥ २६ ॥ अन्यच्च ये प्रपद्यन्ते, भावतोऽमुं नरेश्वरम् । यावज्जीवं विशेषेण, नाथं निःशङ्कमानसाः ॥ २७ ।। अचिन्त्यवीर्यसंपूर्णा, निःशेषगदबैर्हिणी । तेषामेव गुणं धत्ते, मदीया भेषजक्रिया ॥ २८ ॥ युग्मम् । अतस्त्वं प्रतिपद्यस्व, नाथत्वेन नृपोत्तमम् । भावसार महात्मानो, भक्तिमाह्या यतः स्मृताः ॥ २९ ॥ अनन्तास्तात! रोगार्ता, भक्तितोऽमुं नृपोत्तमम् । प्रपद्य स्वाभिभावेन, हृष्टा जाताः कृतर्कियाः ॥ ३० ॥ बलिनस्तावका रोगा, अपथ्ये लम्पटं मनः । महायत्नं विना नात्र, लेक्ष्यते गदसंक्षयः ॥ ३१ ॥ तद्वत्स! प्रैयतो भूत्वा, कृत्वा खं निश्चलं मनः । स्थित्वा निराकुलोऽत्रैव, वितते राजमन्दिरे ॥ ३२ ॥ आदाय कन्यकाहस्तात्प्रयुखानः क्षणे क्षणे । भेषजत्रयमेतत्त्वं, कुरुष्वारोग्यमात्मनः ॥ ३३ ॥ युग्मम् । ततस्तथेति भावेन, गृहीतं तेन तद्वचः । तेनापि तया तस्य, विहिता परिचारिका ॥ ३४ ॥ ततः कृत्वैकदेशेन, भिक्षापात्रमनारतम् । तदेवं पालयन् कालं, कियन्तमपि संस्थितः ॥ ३५ ॥ ददाति तद्दया तस्मै, त्रितयं तदहर्निशम् । कदन्ने मूञ्छितस्यास्य, केवलं तत्र नादरः ॥ ३६ ॥ प्रायेण बहु भुङ्क्तेऽसौ, तन्मोहेन कुभोजनम् । यत्पुनस्तद्दयादत्तं, तद् बजत्युपदंशताम् ॥ ३७ ॥ अञ्जनं च तया प्रोक्तो, निधत्ते नेत्रयोः कचित् । तच्च तीर्थोदकं पातुं, तद्वचसः प्रवर्त्तते ॥ ३८ ॥ महाकल्याणकं दत्तं, संभ्रमेण तया सत्रयीयोगाद्गुणाअपथ्यसे| वनाद्दो पाश्च ३३३-३३९ १ त्वया नराः प्र. २ संप्रदायतयोक्तं. ३ बहिणं. ४ विहितौषधक्रियाः. ५ लक्षते पा. ६ आदरवान्. ७ सेवाकारिणी. ८ पात्रम्. ९ यत्तु तड्यया प्र. |१०व्यानताम्. ११ तद्वचस्तत् प्र. Jain Educati o nal For Private Personel Use Only
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy