SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः ॥१८॥ सत्रय्यधिकारीतर निर्देश: ३१२-३३२ OSLUSSESSHOSSOSAS मरिष्ये ननु मुक्तेऽस्मिन् , मूर्च्छयाऽऽकुलचेतनः ॥ ६॥ अयं वक्ति हितत्वेन, शक्तोऽस्म्यस्य न मोचने । अहो व्यसनमापन्नं, ममेदमतिदुस्तरम् ॥ ७ ॥ एवमाकुलचित्तस्य, यन्नाथैहु भाषितम् । तन्मे भृतघटस्येव, लुठित्वा पार्श्वतो गतम् ॥ ८॥ नाधुना त्याजयोमीति, भवद्भिर्जातमानसैः । इदानीं पुनरादिष्टे, मनाग जातो निराकुलः ॥ ९॥ तद् बेत साम्प्रतं नाथा:!, कर्त्तव्यं पापकर्मणा । यन्मयेश|चित्तेन, येनाहमवधारये ॥१०॥ तदाकर्ण्य दयाऽऽन्येन, यदुक्तं प्राक समासतः । सविस्तरतरं तस्मै, तत्पुनः प्रतिपादितम् ॥ ११ ॥ | ततोऽजनजलानाना, नरेन्द्रस्य विशेषतः । प्रायोज्ञातगुणं ज्ञात्वा, तं प्रतीदमभाषत ।। १२॥ अहं तात! नरेन्द्रेण, प्रागादिष्टो यथा त्वया । योग्येभ्य एव दातव्यं, मदीयं भेषजत्रयम् ॥ १३ ॥ अयोग्यदत्तं नैवैतदुपकारं प्रकल्पयेत् । प्रत्युतानर्थसंतानं, विदधाति विशेषतः ॥ १४ ॥ मया पृष्टं तदा नाथ!, कथं ज्ञास्यामि तानहम् । ततः प्रत्युक्तवान् राजा, तेषामाख्यामि लक्षणम् ॥ १५॥-ये तावदस्य नाद्यापि, रोगिणो योग्यतां गताः । स्वकर्मविवरस्तेषां, न गृहेऽत्र प्रवेशकः ॥ १६॥ सोऽप्यादिष्टो मया पूर्व, ये योग्या भेषजत्रये । प्रवेशनीयास्ते नान्ये, भवनेऽत्र त्वया नराः ॥ १७ ॥ प्रविष्टा अपि ये दृष्ट्वा, मोदन्ते नैव मद्गृहम् । येषां न मामिका दृष्टिविशेषेण निरीक्षिका ॥ १८ ॥ ते ह्यन्यद्वारपालेन, स्युः कथञ्चित्प्रवेशिताः । त्वयाऽपि लिङ्गतो ज्ञात्वा, वर्जनीयाः प्रयत्नतः ॥ १९॥ ये मन्मन्दिरमालोक्य, जायन्ते हष्टचेतनाः । रोगिणो भाविभद्रत्वानिरीक्षेऽहं विशेषतः ॥ २०॥ स्वकर्मविवरानीता, ये मया च विलोकिताः । ते ज्ञेयाखितयस्यास्य, पात्रभूतास्त्वया नराः ॥ २१॥ तेषां तु निकर्षस्थानमिदमेवौषधत्रयम् । प्रयुज्यमानं स्वगुणैः संग्रहेतेरकारकम् ॥ २२ ॥ येभ्योऽदो १दुःखम्. २ वृत्तघटस्येव. प्र. ३ मीदं प्र. ४ ज्ञातो प्र. ५ यूयं. प्र. ६ तया. रोगाणां. ८ घात. ९ सद्गुणानां संग्रहे दोषाणां नाशे. १. भेषजत्रयम्. 3 ॥१८॥ Jain Educa For Private & Personal Use Only Mainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy