________________
कदन्नप्रतिबन्धः स्वचिन्तितप्रकटनं च ८७-३११
उपमितौबोधकरे तदा । भुतेदं त्रयमित्युक्तः, किमेवं बत भाषते ॥ ८८ ॥ आ ज्ञातमेष तुच्छत्वादेवं चिन्तयते हृदि । भोजनत्याजनार्थो मे, पीठबन्धः सर्वोऽयं विस्तरो गिराम् ॥ ८९ ॥ क्लिष्टचित्ता जगत्सर्व, मन्यन्ते दुष्टमानसम् । शुद्धाभिसन्धयः सर्व, शुद्धचित्तं विजानते ।। ९०॥ ततो
विहस्य तेनोक्तं, मा भैषीर्भद्र ! किञ्चन । नाधुना त्याजयामीदमन्नमेधि निराकुलः ॥ ९१ ॥ अहमत्याजयं पूर्व, तवैव हितकाम्यया । यदि नो रोचते तुभ्यं, तूष्णींभावोऽत्र मे मतः ॥ ९२ ॥ यच्चैतदुपदिष्टं ते, प्राक् कर्त्तव्यतया मया । तदत्र भवता किञ्चित् , किं सम्यगवधारितम् ? ॥ ९३ ॥ सोऽब्रवीनैव तन्नाथ !, किञ्चित्संलक्षितं मया । केवलं पेशलालापैस्तावकर्मोदितो हृदि ॥ ९४ ॥ अज्ञातपरमार्थाऽपि, सतां नूनं सरस्वती । चेतोऽतिसुन्दरत्वेन, प्रीणयत्येव देहिनाम् ॥ ९५ ॥ अन्यत्र चेतसो न्यासो, नयने तव संमुखे । विशत्येकेन कर्णेन, वचो यातीतरेण मे ॥ ९६ ।। यच्चात्र मनसो नाथ!, वैधुर्ये मम कारणम् । तत्साम्प्रतं भयापायात् , कथयामि निराकुलः ॥ ९७ ॥ यदा ह्याकारितः पूर्व, भवद्भिः करुणापरैः । अहमन्नप्रदानार्थ, तदा मे हृदि वर्त्तते ॥ ९८ ॥ लास्यत्येष कचिन्नीत्वा, मामकं भोजनं नरः । तदाकूतवशाद्गाढं, ध्यात्वाऽचेतनतां गतः ॥ ९९ ॥ यदा प्रबोधितः पश्चादञ्जनेन सुवत्सलैः । भवद्भिश्चिन्तितं तुर्ण, नश्यामीति तदा मया ॥ ३०॥ यदा तु तोयपानेन, शीतीकृत्य वपुर्मम । कृतं संभाषणं नाथैस्तदा विश्रम्भमागतः ॥ १॥ चिन्तितं च मया योऽयं, ममैवमुपकारकः । स महाभूतिसंपन्नः, कथं स्यादन्नहारकः ?, ॥ २ ॥ विर्मुञ्चेदं गृहाणेदं, यदा नाथैः प्रजल्पितम् । तदा किं करवाणीति, चित्तेनाकुलतां गतः ॥ ३ ॥ नैष तावत्स्वयं लाति, त्याजयत्येव केवलम् । त्यक्तुं नैतच्च शक्नोमि, किं वदामि तदुत्तरम् ? ॥ ४॥ सत्यस्मिन् देहि मे भोज्यमित्युक्ते दापितं त्वया । तदास्वादात्पुनातं, ममायमतिवत्सलः ॥ ५॥ तत् किमस्य वचः कुर्वन् , मुञ्चामीदं स्वभोजनम् ।
१ एष इति. २ स्थिते. ३ भयनाशात्. ४ त्यजेदं च प्र. ५ मयाध्यम. प्र.
Jain Educatmalani
For Private & Personel Use Only
Kunjainelibrary.org