SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ कदन्नप्रतिबन्धः स्वचिन्तितप्रकटनं च ८७-३११ उपमितौबोधकरे तदा । भुतेदं त्रयमित्युक्तः, किमेवं बत भाषते ॥ ८८ ॥ आ ज्ञातमेष तुच्छत्वादेवं चिन्तयते हृदि । भोजनत्याजनार्थो मे, पीठबन्धः सर्वोऽयं विस्तरो गिराम् ॥ ८९ ॥ क्लिष्टचित्ता जगत्सर्व, मन्यन्ते दुष्टमानसम् । शुद्धाभिसन्धयः सर्व, शुद्धचित्तं विजानते ।। ९०॥ ततो विहस्य तेनोक्तं, मा भैषीर्भद्र ! किञ्चन । नाधुना त्याजयामीदमन्नमेधि निराकुलः ॥ ९१ ॥ अहमत्याजयं पूर्व, तवैव हितकाम्यया । यदि नो रोचते तुभ्यं, तूष्णींभावोऽत्र मे मतः ॥ ९२ ॥ यच्चैतदुपदिष्टं ते, प्राक् कर्त्तव्यतया मया । तदत्र भवता किञ्चित् , किं सम्यगवधारितम् ? ॥ ९३ ॥ सोऽब्रवीनैव तन्नाथ !, किञ्चित्संलक्षितं मया । केवलं पेशलालापैस्तावकर्मोदितो हृदि ॥ ९४ ॥ अज्ञातपरमार्थाऽपि, सतां नूनं सरस्वती । चेतोऽतिसुन्दरत्वेन, प्रीणयत्येव देहिनाम् ॥ ९५ ॥ अन्यत्र चेतसो न्यासो, नयने तव संमुखे । विशत्येकेन कर्णेन, वचो यातीतरेण मे ॥ ९६ ।। यच्चात्र मनसो नाथ!, वैधुर्ये मम कारणम् । तत्साम्प्रतं भयापायात् , कथयामि निराकुलः ॥ ९७ ॥ यदा ह्याकारितः पूर्व, भवद्भिः करुणापरैः । अहमन्नप्रदानार्थ, तदा मे हृदि वर्त्तते ॥ ९८ ॥ लास्यत्येष कचिन्नीत्वा, मामकं भोजनं नरः । तदाकूतवशाद्गाढं, ध्यात्वाऽचेतनतां गतः ॥ ९९ ॥ यदा प्रबोधितः पश्चादञ्जनेन सुवत्सलैः । भवद्भिश्चिन्तितं तुर्ण, नश्यामीति तदा मया ॥ ३०॥ यदा तु तोयपानेन, शीतीकृत्य वपुर्मम । कृतं संभाषणं नाथैस्तदा विश्रम्भमागतः ॥ १॥ चिन्तितं च मया योऽयं, ममैवमुपकारकः । स महाभूतिसंपन्नः, कथं स्यादन्नहारकः ?, ॥ २ ॥ विर्मुञ्चेदं गृहाणेदं, यदा नाथैः प्रजल्पितम् । तदा किं करवाणीति, चित्तेनाकुलतां गतः ॥ ३ ॥ नैष तावत्स्वयं लाति, त्याजयत्येव केवलम् । त्यक्तुं नैतच्च शक्नोमि, किं वदामि तदुत्तरम् ? ॥ ४॥ सत्यस्मिन् देहि मे भोज्यमित्युक्ते दापितं त्वया । तदास्वादात्पुनातं, ममायमतिवत्सलः ॥ ५॥ तत् किमस्य वचः कुर्वन् , मुञ्चामीदं स्वभोजनम् । १ एष इति. २ स्थिते. ३ भयनाशात्. ४ त्यजेदं च प्र. ५ मयाध्यम. प्र. Jain Educatmalani For Private & Personel Use Only Kunjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy