SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ द्रमकोपदेशः ७२-८६ उपमितीमा |म्पितः ॥ ७० ॥ इतरः प्राह-यद्येवमुपविश्य क्षणं त्वया । श्रूयतां यदहं वच्मि, श्रुत्वा तच्च समाचर ॥ ७१ ॥ अथोपविष्टे विश्रब्धं, पीठबन्धः तस्मिन्स प्राह चारुभिः । मनः प्रहादयंस्तस्य, वचोभिहितकाम्यया ॥ ७२ ॥ यदभ्यधायि भवता, नाथोऽन्यो नास्ति मेऽधुना । तन्न वाच्यं यतः स्वामी, तव वर्यो नृपोत्तमः ॥ ७३ ॥ अयं हि भगवान्नाथो, भुवनेऽपि चराचरे । विशेषतः पुनर्येऽत्र, भवने सन्ति | ॥१६॥ जन्तवः ॥ ७४ ॥ येऽस्य किङ्करतां यान्ति, नराः कल्याणभागिनः । तेषामल्पेन कालेन, भुवनं किङ्करायते ॥ ७५ ॥ येऽत्यन्तपापिनः सत्त्वा, ये नैव सुखभाजनम् । ते वराका नरेन्द्रस्य, नामाप्यस्य न जानते ॥ ७६ ॥ ये भाविभद्रा दृश्यन्ते, सदनेऽस्य महात्मनः ।। तेषां स्वकर्मविवरो, ददात्यत्र प्रवेशकम् ॥ ७७ ॥ वस्तुतः प्रतिपद्यन्ते, तेऽमुं नास्त्यत्र संशयः । विशेषाजानते मुग्धाः , पश्चोत्ते कथितं । मया ॥ ७८ ॥ तदेष नाथस्ते भद्र !, जात एव नरेश्वरः । यतःप्रभृति पैस्त्येऽसिंन् , प्रविष्टस्त्वं सुपुण्यकः ॥ ७९ ॥ केवलं तु विशेषेण, मदचस्तः प्रपद्यताम् । यावज्जीवमयं नाथो, भवतां शुद्धचेतसां ॥ ८० ॥ विशेषतः पुनर्येऽस्य, गुणास्तानवभोत्स्यसे । यथा यथा गदा देहे, यास्यन्ति तव तानवम् ॥ ८१ ।। अयं च तानवोपायोऽमीषां नाशे च कारणम् । भेषजत्रितयस्यास्य, परिभोगः क्षणे क्षणे ॥ ८२ ॥ तत्सौम्य ! स्थीयतामत्र, भवने मुक्तसंशयम् । त्वया त्रयमिदं युक्त्या, भुजानेन प्रतिक्षणम् ॥ ८३ ॥ ततस्त्वं दलिताशेपरोगबातो नरेश्वरम् । विशेषतः समाराध्य, भविताऽसि नृपोत्तमः ॥ ८४ ॥ इयं च तद्दया तुभ्यं, दास्यत्येतद्दिने दिने । किमत्र बहुनोकेन?, भोक्तव्यं भेषजत्रयम् ।। ८५ ।। ततः प्रहादितः स्वान्ते, वचनैस्तस्य कोमलैः । स्वाकूतमुररीकृत्य, स एवं द्रमकोऽब्रवीत् ॥ ८६ ।। इदं नाद्यापि शक्नोमि, पापस्त्यक्तुं कदन्नकम् । अन्यत्तु यन्मया किञ्चित् , कर्त्तव्यं तत्समादिश ।। ८७ ॥ तच्छ्रुत्वा स्फुरितं चित्ते, धार्म-दा १ नेत्र प्र. २ मुग्धा विशेषात्, पश्चाजानतं इति तुभ्यं मयोक्तं प्राक्. ३ प्रासादे. ४ योऽस्य स्मिन् प्र. ५ मदचस्तत् प्र. ६ क्रियाविशेषणम्. Jain Education a l For Private & Personel Use Only R einelibrary.org In
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy