SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ उपमितौ पीठबन्धः परमान मुञ्चामि नो ततः । तत्रापि श्रूयतां सौम्य !, मोहं हित्वा त्वयाऽधुना ॥ ५३॥ येनैवोपार्जितं लेशात्, केशरूपं च वर्त्तते। लेशस्य च पुनर्हेतुस्तेनैवेदं विमुच्यते ॥ ५४ ॥ यच्चोक्तं न त्यजामीदं, काले निर्वाहकं यतः । तत्राप्याकर्ण्यतां तावत्यक्त्वा तत्र विपर्ययम् ।। ५५॥ अनन्तदुःखसंतानहेतुर्निर्वाहि यद्यपि । एतद्धि किं त्वया स्थेयं, दुःखप्रस्तेन सर्वदा ? ॥ ५६ ॥ इदं तु तावकं नाहं, जानामि ननु | कीदृशम् । यदुक्तं तत्र विश्रब्धो, वक्ष्यमाणं मया शृणु ॥ ५७ ॥ लेशं विना सदाकालं, प्रयच्छामि यथेच्छया । परमानमिदं तुभ्यं,5 गृहाण त्वमनाकुलः ॥ ५८ ।। समूलकार्ष कषति, सर्वव्याधीनिदं हि ते । तुष्टिं पुष्टिं बलं वर्ण, वीर्यादीन वर्द्धयत्यपि ॥ ५९ ॥ किं । |चानेनाक्षयो भूत्वा, सततानन्दपूरितः । यथाऽयमास्ते राजेन्द्रः, स्थास्यस्येतद्बलात्तथा ॥ ६० ॥ ततो मुञ्चाग्रहं भद्र !, त्यजेदं रोगकारणम् । गृहाणेदं महानन्दकारणं परमौषधम् ॥ ६१ ॥ स प्राह-त्यक्तमात्रेऽस्मिन् , म्रियेऽहं स्नेहविभ्रमात् । भट्टारक ! ततो देहि, सत्यस्मिन्मे स्वभेषजम् ।। ६२ ॥ ततो विज्ञाय निर्बन्धमितरः पर्यकल्पयत्। -वास्य शिक्षणोपायो, विद्यतेऽन्योऽधुना स्फुटम् ।। ६३ ॥ ततोऽत्रे विद्यमानेऽपि, दीयतामिदमौषधम् । पश्चाद्विज्ञातसद्भावः, स्वयमेव विहास्यति। ६४ ।। इत्याकलय्य तेनोक्तो, गृह्यतां भद्र ! साम्प्रतम् । परमानमिदं सद्यो, गृहीत्वा चोपयुज्यताम् ।। ६५ ।। एवं भवतु तेनोक्ते, संज्ञिता तेन तद्दया । दत्तं तया गृहीत्वा तत्तेन तत्रैव भक्षितम् ॥ ६६ ॥ ततस्तदुपयोगेन, बुभुक्षा शान्तिमागता । नष्टा इव गाता, येऽस्य सर्वाङ्गसंभवाः ॥ ६७ ॥ याऽसावजनसंपाद्या, या च सा सलिलोद्भवा । सुखासिका क्षणात्तस्य, साऽनन्तगुणतां गता ॥ ६८ ॥ अथ प्रादुर्भवद्भक्तिर्नष्टाशङ्कः प्रमोदितः । स तं प्रत्याह-नान्योऽस्ति, नाथो मे भर्वतो विना ॥ ६९ ॥ यतोऽनुपकृतैरेव, भवद्भिर्भाग्यवर्जितः । अहं सर्वाधमोऽप्येवमेतावदनुक १ कदन्नम्, २ सत्सामीप्ये सद्वद्वेति वर्तमाना. ३ निर्मूल प्र. ४ कदने. स्मिन्नेव भे० प्र. ५ अस्मिन्कदने६ परमानं. ७ सुखिता. ८ युष्मान्विना. दानं ६२-७० RAAAAAAX ॥१५॥ Jain Education medias For Private & Personel Use Only Nainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy