SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. कलत्रयोरपहारः समरसेनदुमविभाकरैयुद्धं ॥२५ ॥ चूतचूचुकं नामोद्यानं, प्रवृत्ते क्रीडितुं, वयं तु कनकचूडराजास्थाने तदा तिष्ठामः, यावदकाण्ड एव प्रवृत्तः कोलाहलः, पूत्कृतं दासचेटीभिः, किमेतदितिसंभ्रान्तं उत्थितमास्थानं, हृते विमलाननारत्नवत्यौ केनचिदिति प्रादुर्भूतः प्रवादः, ततः सन्नद्धमस्मदलं, लग्नं तद्नुमार्गेण, ततो मार्गखिन्नतया परसैन्यस्य सोत्साहतयाऽस्मदनीकस्य स्तोकभूभाग एव समवष्टब्धा परचमूरस्मत्पताकिन्या, श्रुतमस्माभि-18 विभाकरनाम बन्दिभिरुघुष्यमाणं, ततः सर्वैरेव चिन्तितमस्माभिः-अये! स एष कनकपुरनिवासी प्रभाकरबन्धुसुन्दर्योस्तनयो विभाकरो यस्मै प्रभावत्या दत्ता विमलानना पूर्वमासीदिति निवेदितं दूतेन, ततश्चैषोऽस्मान् परिभूय हरत्येते वध्वौ दुष्टात्मेति भावयतो मे विहिता वैश्वानरेण संज्ञा ततो भक्षितं मया क्रूरचित्ताभिधानं वटकं संजातो भासुरः परिणामः, ततो मयाऽभिहितं-अरेरे पुरुषाधम विभाकर! परदारहरणतस्कर! क यासि ? पुरुषो भव पुरुषो भवेति, ततस्तदाकर्ण्य गङ्गाप्रवाह इव त्रिभिः स्रोतोमुखैर्वलितमभिमुखं परवलं आविर्भूतास्तदधिष्ठायकात्रय एव नायकाः, ततो मया कनकचूडराजेन कनकशेखरेण च त्रिभिरपि यो कामैर्यथासंमुखं वृत्तास्ते, इतश्च योऽसौ कन्यागमनसूचनार्थ कनकचूडराजसमीपे समागतः पूर्वमासीन्नन्दराजदूतः स तत्रावसरे मत्सकाशे वर्तते, ततोऽभिहितोऽसौ मया-अरे विकट ! जानीषे त्वं कतमाः खल्वेते त्रयो नायकाः?, विकटः प्राह-देव! सुष्टु जानामि, य एष वामपार्श्वेऽनीकस्य सम्मुखो |भवतः एष कलिङ्गाधिपतिः समरसेनो नाम राजा, एतदलेनैव हि प्रारब्धमिदमनेन विभाकरेण, यतो महाबलतया विभाकरपितुः प्रभाकरस्यायं स्वामिभूतो वर्तते, यः पुनरेष मध्यमसैन्ये वर्ततेऽभिमुखः कनकचूडनरपतेः अयं विभाकरस्यैव मातुलो वङ्गाधिपतिर्दुमो नाम | राजा, यस्त्वेष दक्षिणभागवर्तिनि बले नायकोऽभिमुखः कनकशेखरस्य, सोऽयं विभाकर एव, यावदेवं कथयति विकटः तावत्समाल- है समायोधनं, तच्च कीदृशम्-शरजालतिरस्कृतदृष्टिपथं, पथरोधसमाकुलतीब्रभटम् । भटकोटिविपाटितकुम्भतटं, तटविभ्रमहस्तिशरीर ॥२५ ॥ Jain Education a l For Private & Personel Use Only R Sjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy