SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥२४८॥ मारेण हिंसा, केवलमेतावदधुनाऽहं प्रार्थये-यद्येषा कुमारस्य सततमनुरक्ता भवति, मयाऽभिहितं-कः पुनरेवंभवनेऽस्या उपायो भविध्यति?, वैश्वानरःप्राह-सापराध निरपराधं वा प्राणिनं मारयता कुमारेण न मनागपि धना(घृणा)यितव्यं अयमस्याः खल्वनुरक्तीभवनोपायः, मयाऽभिहितं-किमनयाऽत्यन्तमनुरक्तया भविष्यति?, वैश्वानरः प्राह-कुमार! मत्तोऽपि महाप्रभावेयं, यतो मयाऽधिष्ठितः पुरुषोऽतितेजस्वितया परेषां केवलं त्रासमात्रं जनयति, अनया पुनर्हिसयाऽत्यन्तमनुरक्तयाऽऽलिङ्गितमूर्तिमहाप्रभावतया दर्शनमात्रादेव जीवितमपि नाशयति, तस्मादभिमुखीकर्तव्येयं कुमारेण, मयाऽभिहितमेवं करोमि, वैश्वानरेणोक्तं-महाप्रसाद इति, ततो मार्गे गच्छन्नहं शशसूकरशरभशबरसारङ्गादीनामाटव्यजीवानां शतसहस्राणि मारयामि स्म ततः प्रहृष्टा हिंसा संपन्ना मय्यनुकूला ततः कम्पन्ते मद्दर्शनेन जीवाः मुञ्चन्ति प्राणानपि केचित् ततः संजातो मे वैश्वानरकथितहिंसाप्रभावे प्रत्ययः, प्राप्ता वयं कनकचूडविषयाभ्यर्णे, तत्रास्ति विषमकूटो नाम पर्वतः, तस्मिंश्च कनकचूडमण्डलोपद्रवकारिणोऽम्बरीषनामानश्चरटाः प्रतिवसन्ति, ते च कदर्थिताः पूर्व बहुशः कनकचूडेन, ततः कनकशेखरमागच्छन्तमवगम्य निरुद्धस्तैर्मार्गः, प्रत्यासन्नीभूतमस्मद्दलं, ततः कलकलं कुर्वन्तः समुत्थिताश्चरटाः, समालग्नमायोधनं, ततश्च-निपतितशरजालभिन्नेभकुम्भस्थलाभोगनिर्गच्छदच्छाच्छमुक्ताफलस्तोमसंपूरिताशेषभूपीठदेशं क्षणात् तथाविदलितभटमस्तकासंख्यराजीववृन्दानुकारेण रक्तौधनीरेण दण्डास्त्रसच्छत्रसंघातहंसेन तुल्यं तडागेन संजातमुच्चैर्महायुद्धमस्माकमिति, ततः समुदीर्णतया चरटवर्गस्य संजाताः परिभग्नप्रायाः कनकशेखरादयः, अत्रान्तरे प्रवरसेनाभिधानेन चरटनायकेन सार्ध समापतितं ममायोधनमिति, ततः |संज्ञितोऽहं वैश्वानरेण भक्षितं मया तत्क्रूरचित्ताभिधानं वटकं ततः प्रवृद्धो मेऽन्तस्तापः संजातो भृकुटितरङ्गभङ्गुरो ललाटपट्टः समाचितं स्वेदबिन्दुनिकरण शरीरं, स च प्रवरसेनोऽत्यन्तकुशलो धनुर्वेदे नियूंढसाहसः करवालेऽतिनिपुणः सर्वास्त्रप्रयोगेषु गर्वोद्धुरो विद्या प्रवरसेनेन ॥२४८॥ Jain Education a l For Private & Personel Use Only M ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy