________________
उपमितौ तृ. ३-प्र. ॥२४७॥
ROGRA
भवति, सा च केनचित्प्रयोजनेन ततस्तामसचित्तानगराद्गर्भस्थिते सति वैश्वानरे तत्र रौद्रचित्तपुरे समागताऽऽसीत् , यादृक् तत्तामसचित्तं नगरं यादृशोऽसौ द्वेषगजेन्द्रो राजा यादृशी साऽविवेकिता यञ्च तस्यास्तामसचित्तनगराद्रौद्रचित्तपुरं प्रत्यागमनप्रयोजनमेतत् सर्वमुत्तरत्र कथयिष्यामः, केवलं भद्रेऽगृहीतसङ्केते! न तदाऽस्य व्यतिकरस्याहं गन्धमपि ज्ञातवान् , इदानीमेवास्य भगवतः सदागमस्य प्रसादादिदं समस्तं मम प्रत्यक्षीभूतं, तेन तुभ्यं कथयामि, ततः साऽविवेकिता तत्र रौद्रचित्तपुरे स्थिता कियन्तमपि कालं, जातो दुष्टाभिसन्धिना सह परिचयः, यतो द्वेषगजेन्द्रप्रतिबद्ध एवासौ दुष्टाभिसन्धिश्चरटनरेन्द्रः, ततोऽविवेकितायाः किङ्करभूतो वर्तते, ततः साऽविवेकिता मां मनुजगतौ समागतमवगम्य ममोपरि स्नेहवशेनागत्य ततो रौद्रचित्तपुरात् स्थिता सन्निहिता, जातोऽस्या मम जन्मदिने वैश्वानरो, वृद्धिं गतः क्रमेण, कथितस्तया तस्मै सर्वोऽप्यात्मीयः स्वजनवर्गः, ततस्तस्य वैश्वानरस्य तत्र मार्गे मया सह गच्छतः समुत्पन्नैवम्भूता बुद्धिः यदुत
-नयाम्येनं नन्दिवर्धनकुमारं रौद्रचित्तपुरे, दापयाम्यस्मै दुष्टाभिसन्धिना तां हिंसाकन्यकां, ततस्तया परिणीतया ममैष सर्वप्रयोजनेषु । नन्दिवर्धगाढतरं निर्व्यभिचारो भविष्यति, ततो विचिन्त्य तेनैवमभिहितोऽहं तत्र गमनार्थ, मयोक्तं-कनकशेखरादयोऽपि गच्छन्तु, वैश्वानरः |नेन हिंसाप्राह-कुमार! नामीषां तत्र गमनप्रसरो, यतोऽन्तरङ्गं तद्रौद्रचित्तं नगरं, ततो विना परिजनेन मत्सहाय एव कुमारस्तत्र गन्तुमर्हति, या विवाहः | ततस्तदाकाहमलङ्घनीयतया तद्वचनस्य गुरुतया तत्र स्नेहभावस्य अज्ञानोपहततया चित्तस्यानाकलय्य तस्य परमशत्रुतां अपर्यालोच्यात्मद हिताहितं अदृष्ट्वाऽप्यागामिनीमनर्थपरम्परां गतो वैश्वानरेण सह रौद्रचित्तपुरे दृष्टो दुष्टाभिसन्धिः दापिता वैश्वानरेण मह्यं तेन हिंसा
परिणीता क्रमेण कृतमुचितकरणीयं ततः प्रहितो दुष्टाभिसन्धिना सहितो हिंसावैश्वानराभ्यां, मिलितोऽहं कनकशेखरादिबले, गच्छता ॥२४७॥ मार्गे प्रारब्धः सहर्षेण वैश्वानरेण सह जल्पः यदुत-कुमार! कृतकृत्योऽहमिदानी, मयोक्तं-कथम् ?, स प्राह-यदेषा परिणीता कु
Jain Education
For Private & Personel Use Only
Relainelibrary.org