________________
उपमिती तृ. ३-प्र.
SC-CG ASS
॥२४६॥
कारिणो दुष्टवष्टकाः । रौद्रचित्तपुरे लोकाः, सन्ति द्रोहादयः खलाः ॥ ५ ॥ ते तेऽतिवल्लभास्तस्यास्ते ते सर्वस्वनायकाः । अतश्चरटवन्दस्य, देवी साऽत्यन्तवल्लभा ॥६॥ युग्मम् ॥ दुष्टाभिसन्धिराजेन्द्र, तं भर्तारं दिवानिशम् । मन्यते परमात्मानं, सा शुश्रूषापरायणा ॥७॥ न मुञ्चति च तद्देहं, संवायति तलम् । अनुरक्ता निजे पत्यौ, सा देवी तेन वर्ण्यते ।। ८॥ तस्याश्च निष्करुणताया महादेव्या अभिवृद्धिहेतुस्तस्य रौद्रचित्तपुरस्य वल्लभा तन्निवासिजनानां विनीता जननीजनकयोरतिभीषणा स्वरूपेण साक्षात्कालकूटसम्पुटघटितेव हिंसा नाम दुहिता, तथाहि-यतः प्रभृति सा जाता, कन्यका राजमन्दिरे । तत आरभ्य तत्सर्व, पुरं समभिवर्धते ॥ १॥राजा पुष्टतरीभूतो, देवी स्थूलत्वमागता । अतोऽभिवृद्धिहेतुः सा, पत्तनस्य सुकन्यका ॥ २ ॥ ईर्ष्याप्रद्वेषमात्सर्यचण्डत्वाप्रशमादयः । प्रधाना ये जनास्तत्र, पुरे विख्यातकीर्तयः ॥ ३ ॥ तेषामानन्दजननी, सा हिंसा प्रविलोकिता । स्थिता परापरोत्सङ्गे, संचरन्ती करात्करे ॥ ४ ॥ चुम्ब्यमाना जनेनोचैम्भ्रमीति निजेच्छया । सा तन्निवासिलोकस्य, तेनोक्ताऽत्यन्तवल्लभा ॥ ५॥ दुष्टाभिसन्धिनृपतेर्वचनं नातिवर्तते । सा | निष्करुणतादेव्या, वचनेन प्रवर्तते ॥ ६ ॥ शुश्रूषातत्परा नित्यं, तयोहिंसा सुपुत्रिका । जननीजनकयोस्तेन, सा विनीतेति गीयते ॥ ७॥ भीषणा सा स्वरूपेण, यच्चाभिहितमञ्जसा । तदिदानी मया सम्यक्कथ्यमानं निबोधत ॥ ८ ॥ अपि सा नाममात्रेण, त्रासकम्पविधायिका। सर्वेषामेव जन्तूनां, किं पुनः प्रविलोकिता ? ॥९॥ साऽधोमुखेन शिरसा, नरकं नयति देहिनः । सा संसारमहावर्तगर्तसंपातकारिका ॥१०॥ सा मूलं सर्वपापानां, सा धर्मध्वंसकारिणी । सा हेतुश्चित्ततापानां, सा शास्त्रेषु विगर्हिता ॥ ११ ॥ किंचेह बहुनोक्तेन ?, नास्येव ननु तादृशी । लोकेऽपि दारुणाकारा, सा हिंसा हन्त यादृशी ।। १८ ।। इतश्चास्ति तामसचितं नाम नगरं, तत्र महामोहतनयो द्वेषगजेन्द्रो नाम नरेन्द्रः प्रतिवसति, इतश्च या प्रागाख्याता वैश्वानरस्य जननी मम धात्री अविवेकिता नाम ब्राह्मणी, सा तस्य द्वेषगजेन्द्रस्य भार्या |
ASARAL
तामसचित्ते द्वेषगजेन्द्रभायोऽविवेकिता ॥२४६॥
Jain Educatio
n
al
For Private & Personel Use Only
x
jainelibrary.org