SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. ॥२४५॥ रौद्रचित्तपुरे दुष्टाभिसन्धिनिष्करणापुत्री हिंसा ते तत्र प्रथमं तावत्प्रविशन्ति पुराधमे ॥ ६॥ अतः प्रवेशमार्गत्वात्तस्य निर्मलमानसैः । गीतं तन्नरकद्वार, रौद्रचित्तपुरं जनैः ॥ ७ ॥ ये |जीवाः क्लिष्टकर्माणो, वास्तव्यास्तत्र पत्तने । ते स्वयं सततं तीब्रदुःखग्रस्तशरीरकाः ॥ ८ ॥ तथा परेषां जन्तूनां, दुःखसङ्घातकारिणः । अतो भुवनसन्तापकारणं तदुदाहृतम् ॥ ९॥ किंचात्र बहुनोक्तेन ?, नास्ति प्रायेण तादृशम् । रौद्रचित्तपुरं यादग्भुवनेऽपि पुराधमम् ॥ १० ॥ तत्र रौद्रचित्तनगरे सङ्ग्रहपरश्चौराणां परमशत्रुः शिष्टलोकानां विषमशीलः प्रकृत्या विलोपको नीतिमार्गस्य चरटप्रायो दुष्टाभि४ सन्धिर्नाम राजा, तथाहि-मानोप्रकोपाहङ्कारशाठ्यकामादितस्कराः । दुष्टाभिसन्धि सर्वेऽपि, नरेन्द्रं पर्युपासते ॥ १ ॥ अतोऽन्तरङ्ग चौराणां, तेषां पोषणतत्परः । स राजा गीयते लोकैश्चौरसङ्घहणे रतः ॥ २ ॥ सत्यशौचतपोज्ञानसंयमप्रशमादयः । ये चापरे सदाचाराः, शिष्टलोका यशस्विनः ॥ ३ ॥ दुष्टाभिसन्धिः सर्वेषां, तेषामुन्मूलने रतः । अतोऽसौ परमः शत्रुः, शिष्टानामिति गीयते ॥ ४ ॥ बह्वीभिवर्षकोटीभिर्धर्मध्यानं यदर्जितम् । लोकेन तद्दहत्येष, क्षणमात्रेण दारुणः ॥ ५॥ न चास्य तोषणोपायो, मुग्धलोकैर्विभाव्यते । अतो विषमशीलोऽसौ, प्रकृत्या प्रतिपाद्यते ॥ ६ ॥ सर्वाः सन्नीतयस्तावत्प्रवर्तन्ते जगत्रये । दुष्टाभिसन्धिों यावत्तासां विघटको भवेत् ॥ ७ ॥ प्रादुर्भावे पुनस्तस्य, क धर्मः क च नीतयः । तेनासौ नीतिमार्गस्य, धीरैर्गीतो विलोपकः ।। ८ ॥ तस्य च दुष्टाभिसन्धिनरेन्द्रस्यानभिज्ञा परवेदनानां कुशला पापमार्गे वत्सला चरटवृन्दस्यानुरक्तचित्ता निजे भर्तरि पूतनाकारा निष्करुणता नाम महादेवी, तथाहिदुष्टाभिसन्धिना तेन, नानाकारैः कदर्थनैः । चिरं कर्थितं दीनं, लोकमालोक्य सस्मिता ॥ १॥ सा निष्करुणता देवी, दुःखं गाढतरं ततः । जनयेत्तस्य नो वेत्ति, तेन सा परवेदनाम् ॥ २ ॥ नेत्रोत्पाटशिरश्छेदनासिकाकर्णकर्तनम् । उत्कर्तनं त्वचोऽङ्गस्य, खदिरस्येव कुट्ट४ानम् ॥ ३ ॥ ये चान्ये जन्तुपीडायाः, प्रकारास्तेषु कौशलात् । सा निष्करुणता देवी, पापमार्गे विचक्षणा ॥ ४ ॥ ये ये भुवनसन्ताप ॥२४५॥ Jain Educati o nal For Private & Personel Use Only Tww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy