SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. ॥२४५॥ रौद्रचित्तपुरे दुष्टाभिसन्धिनिष्करणापुत्री हिंसा ते तत्र प्रथमं तावत्प्रविशन्ति पुराधमे ॥ ६॥ अतः प्रवेशमार्गत्वात्तस्य निर्मलमानसैः । गीतं तन्नरकद्वार, रौद्रचित्तपुरं जनैः ॥ ७ ॥ ये |जीवाः क्लिष्टकर्माणो, वास्तव्यास्तत्र पत्तने । ते स्वयं सततं तीब्रदुःखग्रस्तशरीरकाः ॥ ८ ॥ तथा परेषां जन्तूनां, दुःखसङ्घातकारिणः । अतो भुवनसन्तापकारणं तदुदाहृतम् ॥ ९॥ किंचात्र बहुनोक्तेन ?, नास्ति प्रायेण तादृशम् । रौद्रचित्तपुरं यादग्भुवनेऽपि पुराधमम् ॥ १० ॥ तत्र रौद्रचित्तनगरे सङ्ग्रहपरश्चौराणां परमशत्रुः शिष्टलोकानां विषमशीलः प्रकृत्या विलोपको नीतिमार्गस्य चरटप्रायो दुष्टाभि४ सन्धिर्नाम राजा, तथाहि-मानोप्रकोपाहङ्कारशाठ्यकामादितस्कराः । दुष्टाभिसन्धि सर्वेऽपि, नरेन्द्रं पर्युपासते ॥ १ ॥ अतोऽन्तरङ्ग चौराणां, तेषां पोषणतत्परः । स राजा गीयते लोकैश्चौरसङ्घहणे रतः ॥ २ ॥ सत्यशौचतपोज्ञानसंयमप्रशमादयः । ये चापरे सदाचाराः, शिष्टलोका यशस्विनः ॥ ३ ॥ दुष्टाभिसन्धिः सर्वेषां, तेषामुन्मूलने रतः । अतोऽसौ परमः शत्रुः, शिष्टानामिति गीयते ॥ ४ ॥ बह्वीभिवर्षकोटीभिर्धर्मध्यानं यदर्जितम् । लोकेन तद्दहत्येष, क्षणमात्रेण दारुणः ॥ ५॥ न चास्य तोषणोपायो, मुग्धलोकैर्विभाव्यते । अतो विषमशीलोऽसौ, प्रकृत्या प्रतिपाद्यते ॥ ६ ॥ सर्वाः सन्नीतयस्तावत्प्रवर्तन्ते जगत्रये । दुष्टाभिसन्धिों यावत्तासां विघटको भवेत् ॥ ७ ॥ प्रादुर्भावे पुनस्तस्य, क धर्मः क च नीतयः । तेनासौ नीतिमार्गस्य, धीरैर्गीतो विलोपकः ।। ८ ॥ तस्य च दुष्टाभिसन्धिनरेन्द्रस्यानभिज्ञा परवेदनानां कुशला पापमार्गे वत्सला चरटवृन्दस्यानुरक्तचित्ता निजे भर्तरि पूतनाकारा निष्करुणता नाम महादेवी, तथाहिदुष्टाभिसन्धिना तेन, नानाकारैः कदर्थनैः । चिरं कर्थितं दीनं, लोकमालोक्य सस्मिता ॥ १॥ सा निष्करुणता देवी, दुःखं गाढतरं ततः । जनयेत्तस्य नो वेत्ति, तेन सा परवेदनाम् ॥ २ ॥ नेत्रोत्पाटशिरश्छेदनासिकाकर्णकर्तनम् । उत्कर्तनं त्वचोऽङ्गस्य, खदिरस्येव कुट्ट४ानम् ॥ ३ ॥ ये चान्ये जन्तुपीडायाः, प्रकारास्तेषु कौशलात् । सा निष्करुणता देवी, पापमार्गे विचक्षणा ॥ ४ ॥ ये ये भुवनसन्ताप ॥२४५॥ Jain Educati o nal For Private & Personel Use Only Tww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy