________________
भासते, तद्गच्छत शीघ्रं यूय जयनन्दवर्धनकुमारोऽपि पद्मराजम
ति । तदिदं सर्वमर
उपमितौ त्तमान् प्रत्याह-पश्यताहो परमानन्दकारणमपीदमस्माकं नन्दनराजदुहितोरागमनं कुमारविरहानलसर्पिष्प्रक्षेपकल्पतया क्षते क्षारनिषेकतृ. ३-प्र.४ तुल्यं प्रतिभासते, तद्गच्छत शीघ्रं यूयं जयस्थले निश्चितमेतत्तत्रैवास्ते कुमारः निवेदयत पद्मराजनृपतये मदीयावस्थां कन्यागमनं च कार
णद्वयमवगम्य प्रहेष्यत्येव कुमारं पद्मराजः, अन्यच्च नन्दिवर्धनकुमारोऽपि पद्मराजमनुज्ञाप्य युष्माभिरानेयः, यतः स एवोचितो वरो ॥२४४॥
रत्नवत्याः, ततोऽस्माभिरभिहितं यदाज्ञापयति देवः, ततश्चेहामुना प्रयोजनेन समागता वयमिति । तदिदं सर्वमस्मभ्यमेतैराख्यातं, तदेवं स्थिते यद्यपि युष्मद्विरहकातरहृदयतया नेदमस्माभिरभिधातुं शक्यं तथाऽपि महाप्रयोजनमित्याकलय्याभिधीयते यदुत-मा कुरुताधुना कालविलम्बं गच्छतातित्वरया कुशावर्ते जनयतं द्वावपि युवां कनकचूडराजचित्तानन्दमिति, ततः शोभनमाज्ञापितं तातेन, भविष्यत्येव कनकशेखरेण सह ममावियोग इति चिन्तयता मया कनकशेखरेण चाभिहितं यदाज्ञापयति तातः, ततस्तोषनिर्भरेण तातेन तस्मिन्नेव क्षणे सज्जीकारितं प्रस्थानोचितं चतुरङ्गं बलं नियुक्ता महत्तमाः कारिताशेषमाङ्गलिककर्तव्यौ प्रस्थापितावावामिति, प्रवृत्तोऽन्तरङ्गपरिजनमध्ये मया सहाभिव्यक्तरूपो वैश्वानरः, पुण्योदयोऽपि प्रवृत्त एव केवलं प्रच्छन्नरूपतया, ततो दत्तं प्रयाणकं लजितः कियानपि मार्गः । इतश्च-निवासस्थानं दुष्टलोकानां उत्पत्तिभूमिरनर्थवेतालानां द्वारभूतं नरकस्य कारणं भुवनसन्तापस्य तस्करपल्लिप्रायमस्ति | रौद्रचित्तं नाम नगरं, तथाहि-उत्कर्तनशिरश्छेदयन्त्रपीडनमारणैः । ये भावाः सत्त्वसङ्घस्य, घोराः सन्तापकारिणः ॥ १॥ ते लोकास्तत्र वास्तव्या, रौद्रचित्तपुरे सदा । तस्मात्तद्दुष्टलोकानां, निवासस्थानमुच्यते ॥ २ ॥ कलहः प्रीतिविच्छेदस्तथा वैरपरम्परा । पितृमातृसुतादीनां, मारणे निरपेक्षता ।। ३ ॥ ये चान्येऽनर्थवेताला, लोके सम्भावनाऽतिगाः । ते रौद्रचित्ते सर्वेऽपि, संपद्यन्ते न संशयः ॥४॥ उत्पत्तिभूमिस्तत्तेषां, पत्तनं तेन गीयते । यथा च नरकद्वारं, तथेदानीं निगद्यते ॥ ५ ॥ ये सत्त्वा नरकं यान्ति, स्वपापभरपूरिताः ।।
कनकशेखरनन्दिवर्धनयोः
प्रयाणं | रौद्रचित्त
पुरे दुष्टाभिसन्धि
निष्करु
णापुत्री
हिंसा
॥२४४॥
Jain Education
For Private & Personel Use Only
S
ainelibrary.org