________________
उपमितौ तृ. ३-अ.
॥२४२॥
सीति प्रलपितुं प्रवृत्तौ तौ देवीनृपौ, ततः परिजनस्यापि समुल्लासितो महानाक्रन्दरवः, मिलितं मन्त्रिमण्डलं, अभिहितमनेन-देव! नाय|मत्रोपायः, ततो मुञ्च विषादं अवलम्बस्व धैर्य क्रियतां यत्नः कुमारान्वेषणे, राजा न तद्वचनं वेदयते स्म, ततश्चतुरेण चिन्तितं-शो-5 कातिरेकेण त्यक्ष्यति देवः प्राणान् ततो नाधुना ममोपेक्षा कर्तु युक्ता ततः पादयोर्निपत्य तेन राज्ञे निवेदितं सकारणं तदीयमपक्रमणं,
ततो जीवति कुमार इतिकृत्वा प्रत्यागता राज्ञश्चेतना, पृष्टश्चतुरः, व पुनर्गतः कुमार इति, चतुरेणाभिहितं-न मे किश्चिदाख्यातं कुमारेराणापक्रमणकारणमिति, चतुरतया मया लक्षितं केवलमेतावद्वितर्कयामि यदुत-जयस्थले पितृष्वसुः समीपे गतो भविष्यति, वल्लभा हि 81
नन्दा कुमारस्य, वत्सलः पद्मराजः, कुमारपरिचयादेवावगतमिदं मया, इतो निर्गतस्य तत्रैव चित्तनिर्वाणं नान्यत्रेति, ततः साधु चतुर! विज्ञातं साध्वितिवदता दापितं चतुराय पारितोषिकं महादानं राज्ञा, अयमस्यानर्थव्यतिकरस्य हेतुरितिकृत्वा निर्वासितः स्वविषयात्सगोत्रो
विमलानदुर्मुखः, प्रतिज्ञातं च देवीनृपाभ्यां यथा 'यावत् कुमारवदनं साक्षान्नावलोकितं तावन्नैवावाभ्यामाहारशरीरसंस्कारादिकं करणीय'मिति ।
ना रत्नवइतश्च तत्रैव दिने प्रविष्टो दूतः, तेन च विहितोचितप्रतिपत्तिना निवेदितं कनकचूडाय, यथा देव! अस्ति विशाला नाम नगरी, तस्यां
त्योरागमः नन्दनो नाम राजा, तस्य च द्वे भार्ये-प्रभावती पद्मावती च, तयोश्च यथाक्रमं द्वे दुहितरी-विमलानना रत्नवती च, इतश्च कनकपुरे प्रभावत्याः सहोदरोऽस्ति प्रभाकरो नाम राजा, तस्य बन्धुसुन्दरी नाम भार्या, तस्याश्च विभाकराभिधानस्तनयः, तयोश्च प्रभाकरप्रभावत्योः पूर्वमजातयोरेव विभाकरविमलाननयोः परस्परमभूजल्पः यदुत-आवयोर्यस्य कस्यचिद्दुहिता जायेत तेनेतरसम्बन्धिने सुताय सा देयेति, अतः पूर्वप्रतिपन्ना सा विमलानना विभाकरस्य, अन्यदा गुणसंभारगर्भनिर्भर बन्दिभिरु ष्यमाणं श्रुतं तया कनकशेखरकुमारनामकं, ततस्तदाकर्ण्य सा विमलानना कुमारे विजृम्भितानुरागातिरेका निजयूथपरिभ्रष्टेव हरिणिका सहचरवियुक्तेव चक्रवाकिका नाक-18
in Eduet an
D
onal
For Private & Personal Use Only
Dhiainelibrary.org