________________
उपमितौ
॥२४१॥
| मिदमकरिष्यत्ततोऽहमदर्शयिष्यमस्य यदीदृशस्याविनयस्य फलं, यदा तु परकृतमनुमतमप्रतिषिद्धमिति न्यायात् तातेनापीदं गजनिमी-18 &ालिकां कुर्वताऽभिमतमेव तदा किमत्र कुर्मः, यतो दुष्प्रतिकारौ मातापितरावित्याख्यातं भगवता, ततो न युक्तं तावत्तातेन सह
विग्रहकरणं, नापीदृशमिदानीं द्रष्टुं शक्यं, तस्मादितोऽपक्रमणमेव श्रेयः, इत्यालोच्य कस्यचिदप्यकथयित्वा आप्तमित्रवृन्देन सहापक्रान्तोऽहं समागतोऽत्रेति, तदेष मे जनकेनापमानो विहित इति, मयाऽभिहितं-कुमार! सुन्दरमनुष्ठितं भवता, न युक्त एवाभिमानशालिनां पुरुषाणां मानम्लानिकारिभिः सहैकत्र निवासः, तथाहि-भास्करस्तावदेवास्ते, गगने तेजसां निधिः । निर्धूय तिमिरं यावत् , कुरुते सजनोत्सवम् ।। १ ॥ यदा तु लक्षयत्येष, तमसोऽपि महोदयम् । तदाऽपरसमुद्रादौ, गत्वा कालं प्रतीक्षते ॥ २ ॥ तत|स्तुष्टो मदचनेन कनकशेखरः, तदेवं परस्परप्रीत्या गतं दशरात्रं, अत्रान्तरे मद्भवने तिष्ठतोरावयोः समागतो वेदकः, प्रणतिपूर्वकमभिहितमनेन यदत कुमारौ ! देवः समाज्ञापयति-शीघ्रमागन्तव्यं कुमाराभ्यामिति, ततो यदाज्ञापयति तात इत्यभिधायावां गतौ तातसमीपे यावत्तावदतिरभसवशेन तातास्थानादुत्थाय गलदानन्दोदकप्रवाहप्लावितनयनयुगलास्त्रयः प्रधानपुरुषाः समागत्य सपरिकराः पतिताः कनकशेखरचरणयोः, ततः साकृतम्-अये! कैते सुमतिवराङ्गकेशरिण इति वदता सस्नेहमूर्वीकृत्य समालिङ्गिताः कनकशेखरेण, मयोक्तं-कुमार!
कनकशेखरः प्राह-मदीयजनकमहत्तमा इति, ततः कृतप्रतिपत्तयः समुपविष्टाः सर्वेऽपि ताताभ्यर्णे, तातः कनकशेखरं प्रत्याह
वटीयजनकमहत्तमैराख्यातं यथा-यतःप्रभृति कुमारोऽनाख्याय निर्गतो गेहात् तत आरभ्य राजा कनकचूडः परिजनकाशान दृश्यते कापि कुमार इत्याकर्ण्य सहसा वजाहत इव पिष्ट इव परायत्त इव मत्त इव मूच्छित इव न किश्चिञ्चेतयते स्म, देवी चचतमलरी प्रविष्टा महामोहं मृतेव स्थिता मुहूर्त कृतं परिजनेन द्वयोरपि व्यज(ज)नचन्दनादिभिराश्वासनं, ततो हा पुत्रक! क गतो
कनकशे
खराहा
नम्
॥२४१॥
उ.भ. २१ Jain Educat
onal
For Private Personel Use Only
Riwww.jainelibrary.org