SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ आकारसं वरः उपमितौ पला विहितं येन, भवानेवं प्रजल्पति? ॥ ६॥ किं च-अलीकधर्मवात्सल्यं, मदीयं वदता त्वया । परिस्फुटीकृतं नूनं, दुर्मुखत्वमिहात्मनः। तृ. ३-प्र. M६१॥ एवं च वदति मयि लक्षितो दुर्मुखेण मदीयोऽभिप्रायः, चिन्तितमनेन-अये! अर्हद्दर्शने निर्भरोऽस्यानुरागः अनिवर्तकश्चित्त प्रसरः कुपितश्चायं मदीयवचसा तदलमनेनाधुना गाढतरमुद्वेजितेन, प्रगुणीकृत एवात्रार्थे मया राजा, ततः स्वयमेव स्वाभिमतमनुष्टा॥२४॥ | स्यामि साम्प्रतं पुनरेनमनुलोमयामीति संचिन्त्याभिहितमनेन-साधु कुमार! साधु, सुन्दरस्ते सद्धर्मस्थैर्यातिरेकः, मया हि भवतश्चित्तपरीक्षणार्थ सर्वमिदमुपक्रान्तं, ततश्च सुनिश्चितमधुना यदुत-तावकीनं मनः स्थिरतया मेरुशिखरमप्यधरयति, तन्नेदं मदीयवचनं कुमारेणान्यथा सम्भावनीयं, मयाऽभिहितम्-आर्य! किमत्र वक्तव्यं ?, अविषयो भवादृशाम(शोऽन्य)न्यथासम्भावनायाः, ततो निर्गतो मत्समीपादुर्मुखः, मया चिन्तितं-शठप्रकृतिरेष दुर्मुखः पापात्मा च तन्न विज्ञायते किमयमाचरिष्यति ? यतो महताऽऽकूतेन प्रथममनेन मत्रितं पश्चादतित्वरया कृतमाकारसंवरणम् , अतो निरूपयामस्तावत् , ततः प्रयुक्तो मया प्रणिधिचतुरो नामाप्तदारकः, गतेषु कतिचिद्दिनेषु समागतोऽसौ मत्समीपं, निवेदितमनेन-यथा स्वामिन् ! तावदितो निर्गतोऽहं, विनयेनाराध्य दुर्मुखं संपन्नस्तस्याङ्गरक्षकः, ततो दुर्मुखेण रहसि समाहूय समस्तस्थानेभ्यः प्रधानश्रावकानिदमभिहितं यदुत-अरे एष कनकशेखरकुमारोऽलीकधर्मग्रहगृहीतो राज्यं विनाशयितुं लग्नः, ततो युष्मभ्यमितः प्रभृति यदेप किञ्चित् प्रयच्छति यश्च राजभागसद्भूतो भवतां करस्तहयमपि पच्छन्नमेव मम समर्पणीयं, न च कुमाराय निवेदनीयमितरथा नास्ति भवतां जीवितमिति, श्रावकैरुक्तं यदाज्ञापयति महामात्यः, ततो निर्गतास्ते, मयाऽभिहितं भद्र! अपि ज्ञातमेतत्तातेन, चतुरः प्राह-ज्ञातं, मयोक्तं-कुतः सकाशात् ?, चतुरेणोक्तं-तत एव दुर्मुखात् , मयाऽभिहितं-ततः किमाच-| रितं तातेन ?, चतुरः प्राह-न किञ्चित् , केवलं कृता गजनिमीलिका, ततो मया चिन्तितं यद्येष दुर्मुखः केवल एव तातस्यानभिप्रेत-| ॥२४॥ Jain Education a l For Private & Personel Use Only Manelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy