SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ उपमिती तु. ३-प्र. क रहीने जने जाते, यथेष्ट ॥ १३ ॥ तदिदं यत् कुमारेण ** करग्रहस्या वश्यकता ॥२३९॥ न्दरम् ॥ ४४ ॥ तात: प्राहा *R न्यच्चानाधुना भूरिलोको जैनमते स्थितः । कः कुमारप्रसादार्थी, नाश्रयेत्तत् सकर्णकः? ॥ ४२ ॥ एवं च-करहीने जने जाते, यथेष्टप्र| विचारिणि । कस्यात्र यूयं राजानः, किं वा राज्यं विनाऽऽज्ञया? ॥ ४३ ॥ तदिदं यत् कुमारेण, देव! प्रारभ्य लौकिकम् । राजनीतेः समुत्तीर्ण, बुध्यते तन्न सुन्दरम् ।। ४४ ॥ तातः प्राहार्य! यद्येवं, स्वयमेवोच्यतां त्वया । कुमारो न वयं तस्य, सम्मुखं भाषितुं क्षमाः ॥ ४५ ॥ ततश्च-तातानुज्ञामवाप्यैवं, दुर्मुखो मामभाषत । कुमार! नेहशी नीतिर्नृपतेर्लोकपालने ॥ ४६ ॥ यतः-करापीतजगसारो, महसा व्याप्तभूतलः। राजा दिनकराकारो, लोकस्योपरि तिष्ठति ।। ४७ ।। यस्तु प्राकृतलोकस्य, वशगः स्यान्महीपतिः। तस्य स्यात्कीदृशं राज्यं ?, को वा न्यायस्तदाज्ञया? ॥ ४८ ॥ राजदण्डभयाभावात्ततो लोका निरङ्कुशाः । दुष्टचेष्टितमार्गेषु, प्रवर्तन्ते यथेच्छया ॥ ४९ ॥ तदेवं स्थिते-आदितः करदण्डाभ्यां, यस्तानो शास्ति भूपतिः । तेनैव परमार्थेन, सत्कृतो धर्मसम्प्लवः ॥ ५० ॥ कुमार तदिदं ज्ञात्वा, राजधर्मव्यतिक्रमात् । नालीकं धर्मवात्सल्यं, युक्तं कर्तुं भवादृशाम् ॥५१॥ ततः प्रादुर्भवत्कोपविह्वलीभूतचेतसा। आकारसंवरं कृत्वा, मया तं प्रति भाषितम् ॥ ५२ ॥ आर्य! युक्तमिदं वक्तुमेव मां प्रति यद्यहम् । दुष्टवष्टादिलोकस्य, कुर्यां सन्मानपूजनम् ॥ ५३ ॥ ये तु स्वगुणमाहात्म्याद्देवानामपि पूजिताः । तेषां यथेच्छदानेऽपि, नैतत्संबध्यते वचः ॥ ५४॥ तथाहि-ये चौर्यपारदार्यादेः, सर्वस्माहुष्टचेष्टितात् । खत एव महात्मानो, निवृत्ताः सर्वभावतः ॥ ५५ ॥ तेषां जैनेन्द्रलोकानां, दण्डः स्यात् कुत्र कारणे? |दण्डबुद्धिर्भवेत्तेषु, यस्यासौ दण्डमर्हति ॥ ५६ ॥ करोऽपि रक्षणीयेषु, लोकेषु ननु बुध्यते । तस्यापि नोचिता जैना, ये गुणैरेव रक्षिताः ॥ ५७ ॥ अतः किकरतां मुक्त्वा, नान्यत्किञ्चन भूभुजाम् । विधातुं युक्तमेतेषां, सैवास्माभिर्विधीयते ॥ ५८॥ येषां नाथो जगन्नाथो, ४ भगवांस्तेषु किङ्करः । यः स्याद्राजा स एवात्र, राजा शेषास्तु किङ्कराः ॥ ५९॥ एवं चाचरता बेहि, राजनीतेर्विलङ्घनम् । किं मया | दाने करमुक्तौ च हेतुः ASSUROC*** ॥ २३९॥ Jain Education a For Private & Personel Use Only einelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy