________________
उपमिती तु. ३-प्र.
क रहीने जने जाते, यथेष्ट
॥ १३ ॥ तदिदं यत् कुमारेण
**
करग्रहस्या वश्यकता
॥२३९॥
न्दरम् ॥ ४४ ॥ तात: प्राहा
*R
न्यच्चानाधुना भूरिलोको जैनमते स्थितः । कः कुमारप्रसादार्थी, नाश्रयेत्तत् सकर्णकः? ॥ ४२ ॥ एवं च-करहीने जने जाते, यथेष्टप्र| विचारिणि । कस्यात्र यूयं राजानः, किं वा राज्यं विनाऽऽज्ञया? ॥ ४३ ॥ तदिदं यत् कुमारेण, देव! प्रारभ्य लौकिकम् । राजनीतेः समुत्तीर्ण, बुध्यते तन्न सुन्दरम् ।। ४४ ॥ तातः प्राहार्य! यद्येवं, स्वयमेवोच्यतां त्वया । कुमारो न वयं तस्य, सम्मुखं भाषितुं क्षमाः ॥ ४५ ॥ ततश्च-तातानुज्ञामवाप्यैवं, दुर्मुखो मामभाषत । कुमार! नेहशी नीतिर्नृपतेर्लोकपालने ॥ ४६ ॥ यतः-करापीतजगसारो, महसा व्याप्तभूतलः। राजा दिनकराकारो, लोकस्योपरि तिष्ठति ।। ४७ ।। यस्तु प्राकृतलोकस्य, वशगः स्यान्महीपतिः। तस्य स्यात्कीदृशं राज्यं ?, को वा न्यायस्तदाज्ञया? ॥ ४८ ॥ राजदण्डभयाभावात्ततो लोका निरङ्कुशाः । दुष्टचेष्टितमार्गेषु, प्रवर्तन्ते यथेच्छया ॥ ४९ ॥ तदेवं स्थिते-आदितः करदण्डाभ्यां, यस्तानो शास्ति भूपतिः । तेनैव परमार्थेन, सत्कृतो धर्मसम्प्लवः ॥ ५० ॥ कुमार तदिदं ज्ञात्वा, राजधर्मव्यतिक्रमात् । नालीकं धर्मवात्सल्यं, युक्तं कर्तुं भवादृशाम् ॥५१॥ ततः प्रादुर्भवत्कोपविह्वलीभूतचेतसा। आकारसंवरं कृत्वा, मया तं प्रति भाषितम् ॥ ५२ ॥ आर्य! युक्तमिदं वक्तुमेव मां प्रति यद्यहम् । दुष्टवष्टादिलोकस्य, कुर्यां सन्मानपूजनम् ॥ ५३ ॥ ये तु स्वगुणमाहात्म्याद्देवानामपि पूजिताः । तेषां यथेच्छदानेऽपि, नैतत्संबध्यते वचः ॥ ५४॥ तथाहि-ये चौर्यपारदार्यादेः, सर्वस्माहुष्टचेष्टितात् । खत एव महात्मानो, निवृत्ताः सर्वभावतः ॥ ५५ ॥ तेषां जैनेन्द्रलोकानां, दण्डः स्यात् कुत्र कारणे? |दण्डबुद्धिर्भवेत्तेषु, यस्यासौ दण्डमर्हति ॥ ५६ ॥ करोऽपि रक्षणीयेषु, लोकेषु ननु बुध्यते । तस्यापि नोचिता जैना, ये गुणैरेव रक्षिताः
॥ ५७ ॥ अतः किकरतां मुक्त्वा, नान्यत्किञ्चन भूभुजाम् । विधातुं युक्तमेतेषां, सैवास्माभिर्विधीयते ॥ ५८॥ येषां नाथो जगन्नाथो, ४ भगवांस्तेषु किङ्करः । यः स्याद्राजा स एवात्र, राजा शेषास्तु किङ्कराः ॥ ५९॥ एवं चाचरता बेहि, राजनीतेर्विलङ्घनम् । किं मया |
दाने करमुक्तौ च हेतुः
ASSUROC***
॥ २३९॥
Jain Education
a
For Private & Personel Use Only
einelibrary.org