________________
उपमितौ तृ. ३-प्र.
साधर्मिकवात्सल्या
रंभः
॥२३८॥
द विनयं राजनीति च, अनुवर्तयता मया । तथापि तातः प्रच्छन्ने, प्रार्थितो नतया गिरा ।। २३ ।। तद्यथा-करिष्येऽहं यथाशक्ति, वा|त्सल्यं जैनधर्मिणाम् । तात! तत् कुर्वतो यूयमनुज्ञां दातुमर्हथ ॥ २४ ॥ इतश्च-मत्सङ्गेनैव तातोऽपि, भद्रको जिनशासने । ततः सा मामिका तस्य, प्रार्थना रुचिरा मता ॥ २५ ।। आह च-राज्यं पुत्र! तवायत्तमायत्तं तव जीवितम् । स्वाभिप्रेतमतः कुर्वन्न त्वं मां प्रष्टुमर्हसि ॥ २६ ॥ ततोऽहं हर्षपूर्णाङ्गः, पतितस्तातपादयोः । महाप्रसाद इत्येवं, ब्रुवाणः प्रीतमानसः ॥ २७ ॥ ततःप्रभृति सर्वोऽपि, यो नमस्कारधारकः । सोऽन्त्यजोऽपि निजे देशे, बन्धुबुद्ध्या मयेक्षितः ॥ २८ ॥ भोजनाच्छादनैर्दिव्यैरलकारैः सरत्नकैः । धनेन च यथाकामं, भृतः साधर्मिको जनः ॥ २९ ॥ अन्यच्च-अर्हतो यो नमस्कार, धत्ते पुण्यधनो जनः । स देशे घोषणापूर्व, विहितोऽकरदो मया ॥ ३०॥ साधवः परमात्मानः, साध्व्यः परमदेवताः । गुरवः श्रावका लोका, ममेति ख्यापितं मया ॥ ३१॥ जिनेन्द्रशासने भक्तिं, यः कश्चित् कुरुते जनः । आनन्दजलपूर्णाक्षस्तमहं बहुशः स्तुवे ॥ ३२ ॥ यात्रास्नात्रमहोत्सर्गे, प्रमोदमुदिताशयाः । विचरन्ति स्म जैनेन्द्रास्ततः सर्वत्र सज्जनाः ॥ ३३ ॥ तथाभिनवधर्माणो, ये मौनीन्द्रमते स्थिताः । कृता विशेषतस्तेषां, सपर्या भावतो मया ॥ ३४ ॥ ततो मदनुरागेण, लोका धर्मपरायणाः । बहवस्तत्र संपन्ना, यथा राजा तथा प्रजा ॥ ३५ ॥ अथ तं तादृशं वीक्ष्य, प्रमोदं जिनशासने ।। अमात्यो दुर्मुखो नाम, पापः प्रद्वेषमागतः ॥ ३६ ॥ ततो रहसि ताताय, स दुरात्मा हितः किल । युष्मभ्यमहमित्येवं, प्रख्याप्य शठमानसः ।। ३७ ॥ इदं न्यवेदयदेव!, नैवं राज्यस्य पालना । उच्छृङ्खलीकृताः सर्वे, कुमारेण यतो जनाः ॥ ३८ ॥ नातिक्रामन्ति मर्यादा, लोका हि करभीरवः । ते मुक्ता मुत्कलाचाराः, कमनर्थ न कुर्वते ? || ३९ ।। राजदण्डभयादेव, देव! लोको निरङ्कुशः । उन्मार्गप्रस्थित-1 स्तूर्ण, करीव विनिवर्तते ॥ ४० ॥ उद्दण्डोऽनार्यकार्येषु, वर्तमानः स केवलम् । प्रतापहाने राज्ञोऽपि, लाघवं जनयत्यलम् ॥ ४१ ।। अ
दुर्मुखस्य तापोद्भवः
॥२३८॥
Jain Educational
For Private & Personel Use Only
Marjainelibrary.org