SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. साधर्मिकवात्सल्या रंभः ॥२३८॥ द विनयं राजनीति च, अनुवर्तयता मया । तथापि तातः प्रच्छन्ने, प्रार्थितो नतया गिरा ।। २३ ।। तद्यथा-करिष्येऽहं यथाशक्ति, वा|त्सल्यं जैनधर्मिणाम् । तात! तत् कुर्वतो यूयमनुज्ञां दातुमर्हथ ॥ २४ ॥ इतश्च-मत्सङ्गेनैव तातोऽपि, भद्रको जिनशासने । ततः सा मामिका तस्य, प्रार्थना रुचिरा मता ॥ २५ ।। आह च-राज्यं पुत्र! तवायत्तमायत्तं तव जीवितम् । स्वाभिप्रेतमतः कुर्वन्न त्वं मां प्रष्टुमर्हसि ॥ २६ ॥ ततोऽहं हर्षपूर्णाङ्गः, पतितस्तातपादयोः । महाप्रसाद इत्येवं, ब्रुवाणः प्रीतमानसः ॥ २७ ॥ ततःप्रभृति सर्वोऽपि, यो नमस्कारधारकः । सोऽन्त्यजोऽपि निजे देशे, बन्धुबुद्ध्या मयेक्षितः ॥ २८ ॥ भोजनाच्छादनैर्दिव्यैरलकारैः सरत्नकैः । धनेन च यथाकामं, भृतः साधर्मिको जनः ॥ २९ ॥ अन्यच्च-अर्हतो यो नमस्कार, धत्ते पुण्यधनो जनः । स देशे घोषणापूर्व, विहितोऽकरदो मया ॥ ३०॥ साधवः परमात्मानः, साध्व्यः परमदेवताः । गुरवः श्रावका लोका, ममेति ख्यापितं मया ॥ ३१॥ जिनेन्द्रशासने भक्तिं, यः कश्चित् कुरुते जनः । आनन्दजलपूर्णाक्षस्तमहं बहुशः स्तुवे ॥ ३२ ॥ यात्रास्नात्रमहोत्सर्गे, प्रमोदमुदिताशयाः । विचरन्ति स्म जैनेन्द्रास्ततः सर्वत्र सज्जनाः ॥ ३३ ॥ तथाभिनवधर्माणो, ये मौनीन्द्रमते स्थिताः । कृता विशेषतस्तेषां, सपर्या भावतो मया ॥ ३४ ॥ ततो मदनुरागेण, लोका धर्मपरायणाः । बहवस्तत्र संपन्ना, यथा राजा तथा प्रजा ॥ ३५ ॥ अथ तं तादृशं वीक्ष्य, प्रमोदं जिनशासने ।। अमात्यो दुर्मुखो नाम, पापः प्रद्वेषमागतः ॥ ३६ ॥ ततो रहसि ताताय, स दुरात्मा हितः किल । युष्मभ्यमहमित्येवं, प्रख्याप्य शठमानसः ।। ३७ ॥ इदं न्यवेदयदेव!, नैवं राज्यस्य पालना । उच्छृङ्खलीकृताः सर्वे, कुमारेण यतो जनाः ॥ ३८ ॥ नातिक्रामन्ति मर्यादा, लोका हि करभीरवः । ते मुक्ता मुत्कलाचाराः, कमनर्थ न कुर्वते ? || ३९ ।। राजदण्डभयादेव, देव! लोको निरङ्कुशः । उन्मार्गप्रस्थित-1 स्तूर्ण, करीव विनिवर्तते ॥ ४० ॥ उद्दण्डोऽनार्यकार्येषु, वर्तमानः स केवलम् । प्रतापहाने राज्ञोऽपि, लाघवं जनयत्यलम् ॥ ४१ ।। अ दुर्मुखस्य तापोद्भवः ॥२३८॥ Jain Educational For Private & Personel Use Only Marjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy