SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. दर्शनं ॥२३७॥ महाभागः, प्रशान्तो मुनिसत्तमः ॥ ३ ॥ क्षीरसागरगम्भीरस्तापनीयगिरिस्थिरः । दिवाकरमहातेजाः, शुद्धस्फटिकनिर्मलः ॥ ४ ॥ ततः दत्तसाधुप्रादुर्भवद्भक्तिरहं गत्वा तदन्तिकम् । प्रणम्य चरणौ तस्य, निषण्णः शुद्धभूतले ॥ ५॥ वयस्या अपि मे सर्वे, प्रणिपत्य मुनीश्वरम् । उप-का विष्टा मदभ्यणे, विनयानम्रमस्तकाः ॥ ६॥ उपसंहृतसद्ध्यानः, स साधुदत्तनामकः । दत्ताशीमधुरैर्वाक्यैः, समस्तान समभाषत ॥७॥ तदीयवाक्यप्रीतेन, मयोक्तं प्रह्वचेतसा । भदन्त ! कीदृशः प्रोक्तो, धर्मस्तावकदर्शने ? ॥ ८ ॥ अथ प्रहादयन्नुच्चैर्मनो मे कलया गिरा । धर्ममाख्यत्प्रपञ्चेन, जैनचन्द्रं स मे मुनिः ।।९।। तत्रापि प्रथमं तेन, साधुधर्मो निवेदितः । ततस्तदनु विस्तार्य, गृहिधर्मः प्रकाशितः ॥१०॥ ततश्च-सम्यग्दर्शनसन्मूलो, व्रतस्कन्धो महाफलः । शमादिशाखो गृहिणां, धर्मः कल्पद्रुमोपमः ॥ ११ ॥ गृहीतः सवयस्येन, गतोऽन्यत्र महामुनिः । धर्म पालयतो मेऽसावन्यदा पुनरागतः ॥ १२ ॥ इतश्व-व्युत्पन्नबुद्धिः संजातस्तदाऽहमपरापरैः । श्रावकैः सह संसर्ग, कुर्वाणो धर्मकाम्यया ॥ १३ ॥ अथासौ वन्दितो भक्त्या, गत्वोद्यानं महामुनिः । पृष्टश्चेदं भदन्तेह, किं सारं जिनशासने ? ॥१४॥ जिनशासमुनिरुवाच-अहिंसा ध्यानयोगश्च, रागादीनां विनिग्रहः । साधर्मिकानुरागश्च, सारमेतजिनागमे ॥ १५ ॥ मया चिन्तितम् नसारं -सर्वारम्भप्रवृत्तानां, मादृशां सुपरिस्फुटम् । अहिंसा प्राणिनां तावद्विधातुमतिदुःशका ॥ १६ ॥ निष्प्रकम्पमनःसाध्यो, ध्यानयोगोऽपि मादृशाम् । विषयामिषमूढानां, दूराद् दूरतरं गतः ॥ १७ ॥ रागादिनिग्रहोऽप्यत्र, तत्त्वाभ्यासपरायणैः । अप्रमादपरैः शक्यः, कर्तु पुम्भिन मादृशैः ॥ १८ ॥ साधर्मिकानुरागस्तु, यो भदन्तेन साधितः । स कदाचिद्विधीयेत, माशैरपि जन्तुभिः ॥ १९ ॥ तत्र यत्नः कर्तव्यो, यथाशक्ति मयाऽधुना । यतः सारमनुष्ठेयं, नरेण हितमिच्छता ॥ २०॥ एवं निश्चित्य चित्तेन, वन्दित्वा तं मुनीश्वरम् । ।॥२३७॥ प्रवर्धमानसंवेगस्ततोऽहं गृहमागतः ॥ २१ ॥ इतश्चैकसुतत्वेन, जीवितादपि वल्लभः । अहं तातस्य सर्वत्र, यथेच्छाकरणक्षमः ॥ २२॥ Jain Educat i onal For Private & Personel Use Only ww.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy