________________
उपमिती तृ. ३-अ.
॥२३६॥
च्छन्नालोकितो मया धवलाभिधानः सबलो बलाधिकृतः प्राप्तो मदन्तिकं, प्रणतोऽहमनेन, आह च-कुमार! देवः समादिशति, यदुतेतो कनकशेखनिर्गतमात्रस्य ते प्रविष्टो मत्समीपे दूतो, निवेदितं च तेन-यथा कुशावर्तपुरात् कनकचूडराजसूनुः कनकशेखरो नाम राजकुमारो रागमः जनकापमानाभिमानाद्भवत्समीपमागतो गव्यूतमात्रवर्तिनि मलयनन्दने कानने तिष्ठति, एतदाकर्ण्य देवः प्रमाणमिति, ततोऽहं स्वगृहागततया प्रत्यासन्नबन्धुतया महापुरुषतया च प्रत्युद्गमनमर्हति कनकशेखरः कुमार इति आस्थानस्थायिभ्यो राजवृन्देभ्यः प्रख्याप्य एष समुच्चलितः स्वयं तदभिमुखं, कुमारेणापि शीघ्रमागन्तव्यमित्यहं प्रहितो युष्मदाहानाय तत्तूर्ण प्रस्थातुमर्हति कुमारः, ततो यदाज्ञापयति तात इति बुवाणश्चलितोऽहं सपरिकरो, मीलितस्तातबले, पृष्टो मया धवलः, कथमेष कनकशेखरोऽस्माकं बन्धुरिति, धवलेनाभिहितं यतो नन्दायाः कनकचूडः सहोदरो भवति, तेन ते मातुलसूनुरेष भ्रातेति, प्राप्तास्तत्समीपं कृतं कनकशेखरेण तातस्य पादपतनं समालिङ्गितस्तातेन मया च कृतोचिता प्रतिपत्तिः प्रवेशितो नगरे महानन्दविमर्दैन, अभिहितश्च तातेन अम्बया च कनकशेखरो, यथा कुमार! सुन्दरमनुष्ठितं यदात्मीयवदनकमलदर्शनेन जनितोऽस्माकं मनोरथानामप्यगम्यो महांश्चित्तानन्दः, तदेतदपि कुमारस्य पैतृकमेव राज्यं | तस्मान्नात्र कुमारेण तिष्ठता विकल्पो विधेय इति, अभिनन्दितं ताताम्बावचनं कनकशेखरेण, समर्पितस्तातेन मदीयभवनाभ्यर्णवर्ती कनकशेखरस्य महाप्रासादः, स्थितस्तत्रासौ, जातोऽस्य मया सह स्नेहभावः, समुत्पन्नो विश्रम्भः, अन्यदा रहसि पृष्टोऽसौ मया यदुत मया-18 ऽऽकर्णितं किल जनकापमानाभिमानाद्भवतामिहागमनमभूत् , तत्कीदृशो जनकेन भवतोऽपमानो विहित इति श्रोतुमिच्छामि, कनकशेखरेणाभिहितम्-आकर्णय-तातेन चूतमञ्जर्या, जनन्याऽत्यन्तलालितः । कुशावर्तपुरे तावदहमासं कुमारकः ॥ १ ॥ अन्यदा मित्रवृन्देन, युक्तः केलिपरायणः । गतः शमावहं नाम, काननं नन्दनोपमम् ॥ २ ॥ तत्र साधूचिते देशे, रक्ताशोकतलस्थितः । दृष्टो मया
X
For Private & Personal Use Only
Jnin Education
elibrary.org
I