________________
उपमितौ तु. ३-अ.
॥२३४॥
भिहितं-भद्र ! सुन्दरमनुष्ठितं, यतोऽतिरमणीयकमिदं कथानकं, बुध्यत एव श्रोतुम्, अहो अत्यन्तदुरन्तः पापमित्रसम्बन्धो यतस्तस्य 8 बालस्य स्पर्शनसम्पर्कादिहामुत्र च निबिडविडम्बनागर्भा दुःखपरम्परैव केवलं संपन्ना नान्यत्किञ्चनेति, विदुरेण चिन्तितं-बुद्धस्तावदनेन कथानकतात्पर्यार्थ इति भविष्यति मे वचनावकाशः, इतश्च तत्रावसरे मत्तो नातिदूरे वर्तते वैश्वानरः श्रुतं तेन मामकीनं वचनं, चिन्तितमनेन-अये! विरूपको नन्दिवर्धनस्योल्लापो व्युत्पादितप्रायोऽयमनेन विदुरेण तन्न सुन्दरमिदं वर्तते, धृष्टः खल्वेष विदुरो, ज्ञापयिष्यत्यस्य मदीयस्वरूपमिति साशङ्कः संपन्नो वैश्वानरः, विदुरेणाभिहितं-कुमार! सत्यमिदं, सम्यगवधारितं कुमारेण, अन्यच्चप्रकृतिरेषा प्रायः प्राणिनां यथा यत्र कुत्रचित्किञ्चन दृष्टं श्रुतं वा सर्वमात्मविषये योजयन्ति, ततो मयाऽपीदं कथानकमनुश्रुत्य स्वहृदये चिन्तितं यदुत-यदि कुमारस्य कदाचिदपि पापमित्रसम्बन्धो न भवति ततः सुन्दरं संपद्यते, मयाऽभिहितं-भद्र ! किमत्र चिन्तनीयं ?, नास्त्येव मे नापि भविष्यति पापमित्रसम्बन्धगन्धोऽपीति, विदुरः प्राह-वयमप्येतावदेवार्थयामहे, ततः स्थितो मदीयकर्णाभ्यणे विदुरः, शनैः शनैरभिहितं चानेन यदुत-केवलमेषोऽपि वैश्वानरो लोकवार्त्तया दुष्टप्रकृतिः श्रूयते, तदयं सम्यक् परीक्षणीयः कुमारेण, मा भूदेष स्पर्शनवद्वालस्य पापमित्रतया भवतोऽनर्थपरम्पराकारणमिति, निरीक्षते च तस्मिन्नवसरे वैश्वानरः साकूतः सन्नभिमुखो मदीयवदनं, लक्षितोऽहमनेन मुखविकारतस्तैर्विदुरवचनैर्दूयमानः, ततः कृता वैश्वानरेण मां प्रति सा पूर्वसाङ्केतिका संज्ञा, भक्षितं मया क्रूरचित्ताभिधानं तद्बटकं, ततस्तत्प्रभावान्मे क्षणेन वृद्धोऽन्तस्तापः समुल्लसिताः स्वेदबिन्दवो जातं गुजार्धसन्निभं शरीरं संपन्नं विषमदष्टोष्ठं भग्नोप्रभृकुटितरङ्गमतिकरालं वक्रकुहरं, ततो भद्रे अगृहीतसङ्केते! तथा वैश्वानरवटकप्रभावाभिभूतात्मना मया पापकर्मणाऽनाकलय्य तस्य वत्सलतामनालोच्य हितभाषितामविगणय्य चिरपरिचयं परित्यज्य स्नेहभावमुररीकृत्य दुर्जनतां सर्वथा निष्ठरवचनैस्तिरस्कृतोऽसौ विदुरः,
RSSCROCOCOCOCCANCE
हितदेशके
द्वेषः
॥२३४॥
Jain Educatio
n
al
For Private & Personel Use Only
ainelibrary.org