SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ उपमितौ -नरत्वेऽपि विनिर्दिष्टं, व्याप्येवेदं कुटुम्बकम् । यदत्र विदुषा कार्य, तदिदानी निबोधत ॥ ६१ ॥ त्यक्तव्यं बालचरितं, न कार्यस्तित्समागमः। मनीषिचरिते यत्नः, कर्तव्यः सुखमिच्छता ॥ ६२ ॥ यतोऽत्र बहवो जीवाः, प्रायो मध्यमबुद्धयः । ते च सम्यग नुष्ठानात् , संपद्यन्ते मनीषिणः ॥ ६३ ।। एतद्विज्ञाय भो भव्याः!, सर्वेऽपि गदिता मया । कार्य मदनुरोधेन, वृत्तमस्य मनीषिणः ॥६४॥ ॥२३३॥ वर्जनीयश्च यत्नेन, पापमित्रैः समागमः । यतः स्पर्शनसम्पर्कात् , स बालो निधनं गतः ॥ ६५ ॥ वर्जनेन पुनस्तस्य, मनीषी सुपरिस्फुटाम् । लोके शेखरतां प्राप्य, जातोऽयं मोक्षसाधकः ॥ ६६ ॥ कल्याणमित्रैः कर्तव्या, मैत्री पुंसा हितैषिणा । इहामुत्र च विज्ञेया, सा हेतुः सर्वसम्पदाम् ॥६७॥ दोषायेह कुसंसर्गः, सुसंसर्गो गुणावहः। एतच्च द्वयमप्यत्र, मध्यबुद्धौ प्रतिष्ठितम् ॥६८॥ तथाहि-बालः स्पर्शनसंबन्धादेषोऽभूदुःखभाजनम् । युक्तोऽभूत्सतताहाद, एष एव मनीषिणा ॥ ६९ ॥ तदिदं भो! विनिश्चित्य, बहिरङ्गान्तरैः सदा । न कार्यो दुर्जनः सङ्गः, कर्तव्यः सुजनैः सह ।। ७० ।। ततश्च-इदमाकर्ण्य मौनीन्द्र, वचनं सुमनोहरम् । प्रबुद्धा बहवः सत्त्वा, जाता धर्मपरायणाः ॥ ७१ ॥ प्राप्ता देवा निजं स्थानं, स्थितो राज्ये सुलोचनः । गतोऽन्यत्र विहाराय, सूरिः शिष्यगणैः सह ॥ ७२ ॥ ततश्च-विहृत्य कालं भूयांसमागमोक्तेन वर्त्मना । पर्यन्तकाले संप्राप्ते, विधाय सकलं विधिम् ॥ ७३ ॥ ज्ञानध्यानतपोवीर्यवह्निनिर्दग्धकल्मषः । मनीषी निवृति प्राप्तो, हित्वा स्वं देहपजरम् ।। ७४ ॥ ये तु मध्यमसद्वीर्यास्ते तनूभूतकर्मकाः । गवा मध्यमबुद्ध्याद्या, देवलोकेषु साधवः ॥ ७५ ॥ बालस्य तु यदादिष्टं, भदन्तै वि चेष्टितम् । तत्तथैवाखिलं जातं, नान्यथा मुनिभाषितम् ।।७६॥ इति स्पर्शनकथानकं समाप्तम् ] विदुर उवाच-कुमार! तदिदं मया ह्यः कथानकमाकर्णितं, आकर्णयतश्च मम लखितं दिनं, तेन युष्मत्समीपे नागतोऽस्मि, मया: मनीष्यादिकथोपसंहार वैश्वानररप्रभाव: ॥२३३॥ in Educate For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy