SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ उपमितौ -नरत्वेऽपि विनिर्दिष्टं, व्याप्येवेदं कुटुम्बकम् । यदत्र विदुषा कार्य, तदिदानी निबोधत ॥ ६१ ॥ त्यक्तव्यं बालचरितं, न कार्यस्तित्समागमः। मनीषिचरिते यत्नः, कर्तव्यः सुखमिच्छता ॥ ६२ ॥ यतोऽत्र बहवो जीवाः, प्रायो मध्यमबुद्धयः । ते च सम्यग नुष्ठानात् , संपद्यन्ते मनीषिणः ॥ ६३ ।। एतद्विज्ञाय भो भव्याः!, सर्वेऽपि गदिता मया । कार्य मदनुरोधेन, वृत्तमस्य मनीषिणः ॥६४॥ ॥२३३॥ वर्जनीयश्च यत्नेन, पापमित्रैः समागमः । यतः स्पर्शनसम्पर्कात् , स बालो निधनं गतः ॥ ६५ ॥ वर्जनेन पुनस्तस्य, मनीषी सुपरिस्फुटाम् । लोके शेखरतां प्राप्य, जातोऽयं मोक्षसाधकः ॥ ६६ ॥ कल्याणमित्रैः कर्तव्या, मैत्री पुंसा हितैषिणा । इहामुत्र च विज्ञेया, सा हेतुः सर्वसम्पदाम् ॥६७॥ दोषायेह कुसंसर्गः, सुसंसर्गो गुणावहः। एतच्च द्वयमप्यत्र, मध्यबुद्धौ प्रतिष्ठितम् ॥६८॥ तथाहि-बालः स्पर्शनसंबन्धादेषोऽभूदुःखभाजनम् । युक्तोऽभूत्सतताहाद, एष एव मनीषिणा ॥ ६९ ॥ तदिदं भो! विनिश्चित्य, बहिरङ्गान्तरैः सदा । न कार्यो दुर्जनः सङ्गः, कर्तव्यः सुजनैः सह ।। ७० ।। ततश्च-इदमाकर्ण्य मौनीन्द्र, वचनं सुमनोहरम् । प्रबुद्धा बहवः सत्त्वा, जाता धर्मपरायणाः ॥ ७१ ॥ प्राप्ता देवा निजं स्थानं, स्थितो राज्ये सुलोचनः । गतोऽन्यत्र विहाराय, सूरिः शिष्यगणैः सह ॥ ७२ ॥ ततश्च-विहृत्य कालं भूयांसमागमोक्तेन वर्त्मना । पर्यन्तकाले संप्राप्ते, विधाय सकलं विधिम् ॥ ७३ ॥ ज्ञानध्यानतपोवीर्यवह्निनिर्दग्धकल्मषः । मनीषी निवृति प्राप्तो, हित्वा स्वं देहपजरम् ।। ७४ ॥ ये तु मध्यमसद्वीर्यास्ते तनूभूतकर्मकाः । गवा मध्यमबुद्ध्याद्या, देवलोकेषु साधवः ॥ ७५ ॥ बालस्य तु यदादिष्टं, भदन्तै वि चेष्टितम् । तत्तथैवाखिलं जातं, नान्यथा मुनिभाषितम् ।।७६॥ इति स्पर्शनकथानकं समाप्तम् ] विदुर उवाच-कुमार! तदिदं मया ह्यः कथानकमाकर्णितं, आकर्णयतश्च मम लखितं दिनं, तेन युष्मत्समीपे नागतोऽस्मि, मया: मनीष्यादिकथोपसंहार वैश्वानररप्रभाव: ॥२३३॥ in Educate For Private & Personel Use Only jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy