SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥ २३२ ॥ Jain Education वयं मुक्ता, भीमात् संसारचारकात् ।। ४५ ।। गुरुरुवाच --- या विज्ञाता त्वयाऽप्यस्य, जननी शुभसुन्दरी । यावन्तस्तत्सुतास्तेषां सर्वेषामीदृशं मनः ॥ ४६ ॥ ततो गृहीततत्वोऽपि राजर्षिरिदमब्रवीत् । बोधार्थं मुग्धलोकानां विनयानतमस्तक: ।। ४७ ।। किं तस्याः शुभसुन्दर्या, विद्यन्ते बहवः सुताः ? । अस्माभिश्च पुरा ज्ञातमयमेककपुत्रकः ॥ ४८ ॥ गुरुरुवाच — बाढं विद्यन्ते, तथाहि —ये ये त्रिभुव - | नेऽप्यत्र, दृश्यन्तेऽनेन यादृशाः (सन्निभाः) । ते सर्वे शुभसुन्दर्याः, पुत्रा नास्त्यत्र संशयः ॥ ४९॥ किं च ये केचिदुत्तमा लोकाः, सत्त्वमार्गानुयायिनः । ते पुत्राः शुभसुन्दर्यास्तुल्या ज्ञेया मनीषिणा ।। ५० ।। राजर्षिरुवाच - याऽसौ बालस्य जननी, भवद्भिरुपवर्णिता । भदन्त ! बालादन्येऽपि तस्याः किं सन्ति सूनवः ? ॥ ५१ ॥ सूरिणाऽभिहितं - नितरां सन्ति, तथाहि —ये ये त्रिभुवनेऽप्यत्र, जघन्याः क्लिष्टजन्तवः । ते तेऽकुशलमालायाः, पुत्रा नास्त्यत्र संशयः ॥ ५२ ॥ ते बालसदृशैरेव, विज्ञेया दुष्टचेष्टितैः । एतेऽकुशलमालायाः, सूनवः सुपरिस्फुटाः ॥ ५३ ॥ राजर्षिरुवाच यद्येवं तर्हि —— तस्याः सामान्यरूपायाः, किमन्ये सन्ति सूनवः । भदन्त ! किं वा नो सन्ति, | मध्यबुद्धेः सहोदराः ? ॥ ५४ ॥ सूरिणाऽभिहितं - बहुत मास्ते विद्यन्ते, यतः ये बालचरिताः केचिन्मनीषिचरिताश्च ये । एतेभ्यो ये परे सत्त्वाः सर्वे तेऽमुष्य सोदराः ॥ ५५ ॥ ये केचिच्छबलाचाराः, समा मध्यमबुद्धिना । सुताः सामान्यरूपायास्ते जीवा भुवनोदरे ॥ ५६ ॥ सकाशादितराभ्यां ते, गण्यमाना जगत्रये । अनन्तगुणितास्तेन, प्रोक्ता भूरितमा मया ॥ ५७ ॥ राजर्षिरुवाच — भदन्त ! यद्येवं ततो मम चेतसि परिस्फुरति — यथैवं व्यवस्थिते सत्येतदापन्नं यदुत - भार्यायेण जनितं जघन्योत्तममध्यमम् । तस्य कर्मविला - सस्य, जगदेतत्कुटुम्बकम् ॥ ५८ ॥ सूरिरुवाच - आर्य ! नैवात्र सन्देहः, सम्यगार्येण लक्षितम् । मार्गानुसारिणी बुद्धिर्भवत्येव भवादृशाम् ॥ ५९ ॥ तथाहि — जघन्यमध्यमोत्कृष्टाः, सर्वयोनिषु जन्तवः । विद्यन्ते केवलं नृत्वे, व्यक्तभावा भवन्ति ते ॥ ६० ॥ ततश्च For Private & Personal Use Only शत्रुमर्दन मुनिप्रश्नो मनीषिचि. त्तसमचि त्तविधाने ॥ २३२ ॥ Panelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy