SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. दीक्षितेभ्यो गुरुपदेशः ॥२३१॥ विलम्बितेनात्र, संसार इतिभाषिणा ॥२६॥ ततः प्रवचनोक्तेन, विधिना धूतकल्मषैः । सर्वे ते क्षणमात्रेण, दीक्षिता गुरुभिर्जनाः ॥२७॥ अथ संवेगवृद्ध्यर्थ, कल्पोऽयमिति वा क्षणम् । कृता समक्षं लोकस्य, सूरिभिर्धर्मदेशना ॥२८॥ तद्यथा-"अनाद्यनन्तसंसारे, जन्ममृत्युभया| "केर । मौनीन्द्री दुर्लभा सत्त्वैः, प्रव्रज्येयं सुनिर्मला ॥२९॥ यतः-तावदुःखान्यनन्तानि, तावद्रागादिसन्ततिः। प्रभवः कर्मणस्तावत्तावज "न्मपरम्परा ॥ ३० ॥ विपदस्तावदेवैतास्तावत्सर्वा विडम्बनाः । तावद्दीनानि जल्पन्ति, नरा एव पुरो नृणाम् ॥३१॥ तावद्दौर्गत्यसद्भाव| "स्तावद्रोगसमुद्भवः । तावदेष बहुक्लेशो, घोरसंसारसागरः ॥३२॥ यावन्निःशेषसावधयोगोपरतिलक्षणा । एषा न लभ्यते जीवैः, प्रव्रज्या| "ऽत्यन्तदुर्लभा ॥३३॥ चतुर्भिः कलापकं ॥ प्रसादाल्लोकनाथस्य, स्वकर्मविवरेण च । यदा तु सत्त्वैर्लभ्येत, प्रव्रज्येयं जिनोदिता ॥३४॥ "तदा निर्धूय पापानि, यान्ति ते परमां गतिम् । अनन्तानन्दसंपूर्णा, निःशेषलेशवर्जिताम् ॥ ३५ ॥ युग्मम् । ततोऽमी ये पुरा प्रोक्ताः, | "सर्वेऽपि भवभाविनः । क्षुद्रोपद्रवसंघाता, दुरापास्ता भवन्ति ते ॥ ३६॥ किं च-इहापि भो भवन्त्येव, प्रशमामृतपायिनः । प्रव्रज्या| "प्राहिणो जीवा, निर्बाधाः सुखपूरिताः ॥ ३७॥ सा च भागवती दीक्षा, युष्माभिरधुना स्फुटम् । संप्राप्ता तेन संप्राप्तं, यत्प्राप्तव्यं भवो "दधौ ॥ ३८ ॥ केवलं सततं यत्नः, प्रमादपरिवर्जितैः । यावज्जीवं विधातव्यो, भवद्भिरिदमुच्यते ॥३९॥ यतः-नाधन्याः पारमेतस्या, | "गच्छन्ति पुरुषाधमाः । ये तु पारं व्रजन्त्यस्यास्त एव पुरुषोत्तमाः ॥ ४०॥" ततस्तैः प्रणतैः सर्वैर्जजल्पे सूरिसंमुखम् । इच्छामोऽनुग्रहं नाथ!, कुर्मो नाथानुशासनम् ॥४१॥ स्थगिताननदेशेन, मुखवस्त्रिकया मुदा । अत्रान्तरे कृतः प्रश्नः, शत्रुमर्दनसाधुना ॥४२॥ कथम् ? -विशालं निर्मलं धीरं, गम्भीरं गुरुदक्षिणम् । दयापरीतं निश्चिन्तं, द्वेषाभिष्वङ्गवर्जितम् ॥ ४३ ॥ स्तिमितं जगदानन्दं, यद्वा वाग्गोचरातिगम् । कथमीदृग्भवेच्चित्तं, नाथ! यादृग् मनीषिणः ॥ ४४ ॥ युग्मम् । यस्य चेष्टितमालोक्य, शिथिलीभूतबन्धनाः । एते सर्वे शत्रुमर्दनमुनिप्रश्नो मनीषिचित्तसमचित्तविधाने की R ॥२३१॥ Jain Education Kardalonal For Private & Personel Use Only MRhinelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy