SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. राजादीनां दीक्षापरिNणतिः ॥२३०॥ भागवतीं दीक्षामङ्गीकुर्मः सुनिर्मलाम् ॥८॥ नृपतिरुवाच-अहो विवेको युष्माकमहो गम्भीरचित्तता । अहो वचनविन्यासस्तथाऽहो सत्त्वसारता ॥९॥ साध्वध्यवसितं भद्रैः, साधु प्रोत्साहिता वयम्। साधु भोः क्षणमात्रेण, त्रोटितं भवपञ्जरम् ॥१०॥ एवं सामान्यतस्तावत् , सर्वेषामभिनन्दनम् । कृत्वा प्रत्येकमप्याह, स राजा हर्षनिर्भरः ॥ ११ ॥ तत्र सुबुद्धिं तावदुवाच-सखे! विदितसंसारस्वभावेन त्वया गृहे । इयन्तं तिष्ठता कालं, वयमेव प्रतीक्षिताः ॥ १२ ॥ अन्यथा ते गृहे किं वा, स्यादवस्थानकारणम् ? । को नाम राज्यलाभेऽपि, भजेचाण्डालरूपताम् ? ॥ १३ ॥ तत्साधु विहितं साधु, कृतोऽस्माकमनुग्रहः । एवमाचरता मित्र!, दर्शिता च सुमित्रता ॥ १४ ॥ मध्यमबुद्धिं प्रत्याह-त्वमादावेव धन्योऽसि, यस्य सङ्गो मनीषिणा । नैव कल्पद्रुमोपेतो, नरोऽकल्याणमर्हति ॥ १५॥ अधुना चरितेऽप्यस्य, दधानेन मतिं त्वया । स्वभ्रातुर्निर्विशेषेयं, दर्शिता तुल्यरूपता ॥ १६ ॥ तत्साधु विहितं भद्र!, यः पश्चादपि सुन्दरः । सोऽपि सुन्दर एवेति, यतो वृद्धाः प्रचक्षते ॥ १७ ॥ ततो मदनकन्दली प्रत्याह-सारं च सुकुमारं च, देवि! काञ्चनपद्मवत् । तावकीनमिदं चित्तं, | येनाङ्गीकृतमीदृशम् ।। १८ ।। प्रसिद्धा धर्मपत्नीति, यत्त्वं लोकोपचारतः । मम तत्सत्यतां नीतं, कर्तव्येन त्वयाऽधुना ।। १९ ॥ तत्साधु विहितं देवि!, नास्त्यत्र भवपक्षरे । नियब्रितानां जीवानां, कर्तव्यमपरं वरम् ॥ २०॥ तथा-यैरभ्युपगता दीक्षा, तानन्यानपि भा|वतः । स राजा मधुरैरेवं, वाक्यैरानन्द्य तोषतः ॥ २१ ॥ तद्यथा-धन्या यूयं महात्मानः, कृतकृत्या नरोत्तमाः । यैरभ्युपगता तूर्ण, सद्दीक्षा पारमेश्वरी ।। २२ ॥ तच्चारु विहितं भद्रा!, युक्तमेतद्भवादृशाम् । यूयमेव परं लोके, निर्मिथ्या मम बान्धवाः ॥ २३ ॥ ततश्च -राजचिह्नार्पणाद्राज्ये, स्थापयित्वा सुलोचनम् । ततः कृतान्यकर्तव्यः, प्रविष्टो जिनमन्दिरे ॥ २४ ॥ तत्र च-विहिताशेषकर्तव्याः, पूजयित्वा जगद्गुरुम् । आचार्येभ्यो निजाकूतं, ते सर्वेऽप्याचचक्षिरे ॥ २५ ॥ ततोऽभिनन्दितास्तेऽपि, सूरिभिः कलया गिरा । अलं Jain Education anal For Private & Personel Use Only Callulainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy