________________
उपमिती तृ. ३-प्र.
राजादीनां दीक्षापरिNणतिः
॥२३०॥
भागवतीं दीक्षामङ्गीकुर्मः सुनिर्मलाम् ॥८॥ नृपतिरुवाच-अहो विवेको युष्माकमहो गम्भीरचित्तता । अहो वचनविन्यासस्तथाऽहो सत्त्वसारता ॥९॥ साध्वध्यवसितं भद्रैः, साधु प्रोत्साहिता वयम्। साधु भोः क्षणमात्रेण, त्रोटितं भवपञ्जरम् ॥१०॥ एवं सामान्यतस्तावत् , सर्वेषामभिनन्दनम् । कृत्वा प्रत्येकमप्याह, स राजा हर्षनिर्भरः ॥ ११ ॥ तत्र सुबुद्धिं तावदुवाच-सखे! विदितसंसारस्वभावेन त्वया गृहे । इयन्तं तिष्ठता कालं, वयमेव प्रतीक्षिताः ॥ १२ ॥ अन्यथा ते गृहे किं वा, स्यादवस्थानकारणम् ? । को नाम राज्यलाभेऽपि, भजेचाण्डालरूपताम् ? ॥ १३ ॥ तत्साधु विहितं साधु, कृतोऽस्माकमनुग्रहः । एवमाचरता मित्र!, दर्शिता च सुमित्रता ॥ १४ ॥ मध्यमबुद्धिं प्रत्याह-त्वमादावेव धन्योऽसि, यस्य सङ्गो मनीषिणा । नैव कल्पद्रुमोपेतो, नरोऽकल्याणमर्हति ॥ १५॥ अधुना चरितेऽप्यस्य, दधानेन मतिं त्वया । स्वभ्रातुर्निर्विशेषेयं, दर्शिता तुल्यरूपता ॥ १६ ॥ तत्साधु विहितं भद्र!, यः पश्चादपि सुन्दरः । सोऽपि सुन्दर एवेति, यतो वृद्धाः प्रचक्षते ॥ १७ ॥ ततो मदनकन्दली प्रत्याह-सारं च सुकुमारं च, देवि! काञ्चनपद्मवत् । तावकीनमिदं चित्तं, | येनाङ्गीकृतमीदृशम् ।। १८ ।। प्रसिद्धा धर्मपत्नीति, यत्त्वं लोकोपचारतः । मम तत्सत्यतां नीतं, कर्तव्येन त्वयाऽधुना ।। १९ ॥ तत्साधु विहितं देवि!, नास्त्यत्र भवपक्षरे । नियब्रितानां जीवानां, कर्तव्यमपरं वरम् ॥ २०॥ तथा-यैरभ्युपगता दीक्षा, तानन्यानपि भा|वतः । स राजा मधुरैरेवं, वाक्यैरानन्द्य तोषतः ॥ २१ ॥ तद्यथा-धन्या यूयं महात्मानः, कृतकृत्या नरोत्तमाः । यैरभ्युपगता तूर्ण, सद्दीक्षा पारमेश्वरी ।। २२ ॥ तच्चारु विहितं भद्रा!, युक्तमेतद्भवादृशाम् । यूयमेव परं लोके, निर्मिथ्या मम बान्धवाः ॥ २३ ॥ ततश्च
-राजचिह्नार्पणाद्राज्ये, स्थापयित्वा सुलोचनम् । ततः कृतान्यकर्तव्यः, प्रविष्टो जिनमन्दिरे ॥ २४ ॥ तत्र च-विहिताशेषकर्तव्याः, पूजयित्वा जगद्गुरुम् । आचार्येभ्यो निजाकूतं, ते सर्वेऽप्याचचक्षिरे ॥ २५ ॥ ततोऽभिनन्दितास्तेऽपि, सूरिभिः कलया गिरा । अलं
Jain Education anal
For Private & Personel Use Only
Callulainelibrary.org