________________
उपमितौ तृ. ३-प्र.
॥२२९॥
"मानोऽम्बरविवरवर्तिनीभिः सुरसुन्दरीभिः सहितो रथान्तरारूढेन स्वप्रतिबिम्बसन्निभेन मध्यमबुद्धिना अनुगम्यमानो रथहरिकरिगतैर्म"हासामन्तसमूहैर्महता विमर्दैन प्राप्तो मनीषी निजविलसितोद्याने," रथादवतीर्य स्थितः क्षणमात्रं प्रमोदशेखरद्वारे परिवेष्टितो राजवृन्देन, इतश्च स्यन्दनारोहणादारभ्य राजा विशेषतस्तदा सत्त्वपरीक्षार्थ मनीषिखरूपं दत्तावधानो निरूपयति स्म यावता तस्य विशुध्यमानाध्यवसायप्रक्षालितमनोमलकलङ्कस्य सत्यपि तादृशे हर्षहेतौ न लक्षितस्तेन तिलतुषत्रिभागमात्रोऽपि चेतोविकारः प्रत्युत गाढतरं क्षारमृत्पुटपाकादिभिरिव विचित्रसंसारविलसितदर्शनसमुद्भूतैर्भावनाविशेषैर्निर्मलीभूतं चित्तरत्रं, ततः परस्परानुविद्धतया मनःशरीरयोर्जातमस्य देदीप्यमानं शरीरं विलोकितं च राज्ञा यावत्तत्तेजसाभिभूतं दिनकरकरनिकरतिरस्कृतमिव तारकानिकुरुम्ब न राजते मनीषिणोऽभ्यर्णवर्ति तद्राजकं, ततस्तदीयगुणप्रकर्षेण राज्ञोऽपि विलीनं तद्विबन्धकं कर्मजालं संजातश्चरणपरिणामो: निवेदितः सुबुद्धिमध्यमबुद्धिमदनकन्दलीसामन्तादिभ्यो निजोऽभिप्रायः, ततोऽचिन्त्यमाहात्म्यतया महापुरुषसन्निधानस्य विचित्रतया कर्मक्षयोपशमस्य रजितचित्ततया निष्कृत्रिममनीषिगुणैः समुल्लसितं सर्वेषां तदा जीववीर्य, ततस्तैरभिहितम्-साधु साधूदितं देव!, युक्तमेतद्भवादृशाम् । संसारे ह्यत्र निःसारे, नान्यच्चारु विवेकिनाम् ॥ १॥ तथाहि-देव! यद्यत्र संसारे, किश्चित् स्याद्रामणीयकम् । श्लाघ्यं सारमुपादेयं, वस्तु सुन्दरमेव वा ॥ २ ॥ ततः किमीदृशाः सन्तः, पूज्या युष्मादृशामपि । संसारमेनं मुञ्चेयुर्ज्ञाततत्त्वा महाघियः ॥ ३ ॥ युग्मम् । ततोऽभूदृशसल्लोकत्यागादेवावगम्यते । नास्त्यत्र किञ्चित्संसारे, सारं चारकसन्निभे॥४॥ अतो मनीषिभिस्त्यक्ते, देव! नैवात्र युज्यते । स्थातुं विज्ञाततत्त्वानां, भवे भूरिभयाकरे ॥ ५ ॥ अन्यच्च देव! सर्वेषामस्माकमपि साम्प्रतम् । दृष्ट्वा मनीषिणश्चित्तं, न चित्तं रमते भवे ॥ ६॥ यथै| वास्य प्रभावेण, संजातश्चरणोद्यमः । अस्माकमेष निर्वाहं, तथा तेनैव यास्यति ॥ ७॥ ततोऽस्माननुजानीत, संसारोच्छेदकारिणीम् । येन
राजादीना दीक्षापरिणतिः
|॥२२९॥
उ.भ. २०
Jain Educat
dainelibrary.org
For Private Personal Use Only
on