SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ उपमितौ तु. ३-प्र. ।। २२७॥ नैमित्तिकाह्वानं अष्टाह्निकोत्सवः द्धिराह-देव! निरूप्य दीक्षाग्रहणार्थमस्य प्रशस्तदिनं क्रियतां तदारात् सर्वादरेण महत्तरः प्रमोदः, नृपतिराह-यत्त्वं जानीषे, ततः समाहूतः सिद्धार्थो नाम सांवत्सरः, समागतस्त्वरया प्रविष्टोऽभ्यन्तरे राज्ञा दापितमासनं कृतमुचितकरणीयं कथितमाह्वानप्रयोजन ततो निरूप्य निवेदितमनेन यदुत-अस्माहिनान्नवमे दिनेऽस्यामेव भाविन्यां शुक्लत्रयोदश्यां शुक्रदिने उत्तरभद्रपदाभिर्योगमुपगते शशधरे *वहति शिवयोगे दिनकरोदयातीते सपादे प्रहरद्वये वृषलग्नं सप्तग्रहकं एकान्तनिरवद्यं भविष्यति तदाश्रीयतामिति अभिहितं राजमश्रिणोः, परिपूज्य प्रहितः सांवत्सरः गतं तदिनं, ततो द्वितीयदिनादारभ्य प्रमोदशेखरे तदन्यजिनायतनेषु च देवानामपि विस्मारितसुरालयसौन्दर्या विधापिता राज्ञा महोत्सवाः दापितानि वरवरिकाघोषणपूर्वकं सर्वत्र महादानानि विहारितो देवेन्द्रवदैरावतविभ्रमजयकरिवरारूढः स्वयं पदातिभावं भजता त्रिकचतुष्कचत्वरादिषु सुराकारैर्नागरिकजनैः स्तूयमानो निरुपमविलासविस्तारमनुभावयता नरपतिना प्रतिदिनं नगरे मनीषी, प्राप्तोऽष्टमवासरः, तत्र च नीतं निखिलजनसन्मानदानार्घमानविनोदेन प्रहरद्वयं, अत्रान्तरे दिनकराचरितेन मनीषिवचनं सूचयताऽभिहितं कालनिवेदकेन-नाशयित्वा तमो लोके, कृत्वाऽऽहादं मनस्विनाम् । हे लोकाः! कथयत्येष, भास्करो वोऽधुना स्फुटम् ॥१॥ वर्धमानः प्रतापेन, यथाऽहमुपरि स्थितः । सर्वोऽपि स्वगुणैरेव, जनस्योपरि तिष्ठति ॥ २॥ ततस्तदाकर्ण्य राजा सुबुद्धिप्रभृतीनुदिश्याह-अये ! प्रत्यासीदति लग्नवेला ततः सज्जीकुरुत तूर्ण भगवत्पादमूले गमनसामग्री, सुबुद्धिरुवाच-देव! प्रढव वर्त्तते मनी षिपुण्यपरिपाटीव सर्वा सामग्री, तथाहि-अमी घणघणारावं, कुर्वन्तः कनकोज्वलाः । रथौघाः प्रस्थितास्तूर्णमायुक्तवरवाजिनः ॥ १॥ भएते संख्यामतिक्रान्ता, राजवृन्दैरधिष्ठिताः । जीमूता इव नागेन्द्रा, द्वारे गर्जन्ति मन्थरम् ॥ २॥ वर्याश्ववारैः संरुद्धाः, कथञ्चिचटु लाननैः । खमापिबन्तोऽमी देव!, हया हेषन्ति दर्पिताः ॥३॥ अयं पदातिसंघातः, क्षीरनीरेश्वरोपमः । मत्तः प्रयोजनं ज्ञात्वा, सुवे KAMISHAHARASSA | निष्क्रमणायोत्सवः ॥२२७॥ Jain Education Intern For Private & Personel Use Only MPTimelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy