________________
उपमितौ तु. ३-प्र. ।। २२७॥
नैमित्तिकाह्वानं
अष्टाह्निकोत्सवः
द्धिराह-देव! निरूप्य दीक्षाग्रहणार्थमस्य प्रशस्तदिनं क्रियतां तदारात् सर्वादरेण महत्तरः प्रमोदः, नृपतिराह-यत्त्वं जानीषे, ततः समाहूतः सिद्धार्थो नाम सांवत्सरः, समागतस्त्वरया प्रविष्टोऽभ्यन्तरे राज्ञा दापितमासनं कृतमुचितकरणीयं कथितमाह्वानप्रयोजन
ततो निरूप्य निवेदितमनेन यदुत-अस्माहिनान्नवमे दिनेऽस्यामेव भाविन्यां शुक्लत्रयोदश्यां शुक्रदिने उत्तरभद्रपदाभिर्योगमुपगते शशधरे *वहति शिवयोगे दिनकरोदयातीते सपादे प्रहरद्वये वृषलग्नं सप्तग्रहकं एकान्तनिरवद्यं भविष्यति तदाश्रीयतामिति अभिहितं राजमश्रिणोः,
परिपूज्य प्रहितः सांवत्सरः गतं तदिनं, ततो द्वितीयदिनादारभ्य प्रमोदशेखरे तदन्यजिनायतनेषु च देवानामपि विस्मारितसुरालयसौन्दर्या विधापिता राज्ञा महोत्सवाः दापितानि वरवरिकाघोषणपूर्वकं सर्वत्र महादानानि विहारितो देवेन्द्रवदैरावतविभ्रमजयकरिवरारूढः स्वयं पदातिभावं भजता त्रिकचतुष्कचत्वरादिषु सुराकारैर्नागरिकजनैः स्तूयमानो निरुपमविलासविस्तारमनुभावयता नरपतिना प्रतिदिनं नगरे मनीषी, प्राप्तोऽष्टमवासरः, तत्र च नीतं निखिलजनसन्मानदानार्घमानविनोदेन प्रहरद्वयं, अत्रान्तरे दिनकराचरितेन मनीषिवचनं सूचयताऽभिहितं कालनिवेदकेन-नाशयित्वा तमो लोके, कृत्वाऽऽहादं मनस्विनाम् । हे लोकाः! कथयत्येष, भास्करो वोऽधुना स्फुटम् ॥१॥ वर्धमानः प्रतापेन, यथाऽहमुपरि स्थितः । सर्वोऽपि स्वगुणैरेव, जनस्योपरि तिष्ठति ॥ २॥ ततस्तदाकर्ण्य राजा सुबुद्धिप्रभृतीनुदिश्याह-अये ! प्रत्यासीदति लग्नवेला ततः सज्जीकुरुत तूर्ण भगवत्पादमूले गमनसामग्री, सुबुद्धिरुवाच-देव! प्रढव वर्त्तते मनी
षिपुण्यपरिपाटीव सर्वा सामग्री, तथाहि-अमी घणघणारावं, कुर्वन्तः कनकोज्वलाः । रथौघाः प्रस्थितास्तूर्णमायुक्तवरवाजिनः ॥ १॥ भएते संख्यामतिक्रान्ता, राजवृन्दैरधिष्ठिताः । जीमूता इव नागेन्द्रा, द्वारे गर्जन्ति मन्थरम् ॥ २॥ वर्याश्ववारैः संरुद्धाः, कथञ्चिचटु
लाननैः । खमापिबन्तोऽमी देव!, हया हेषन्ति दर्पिताः ॥३॥ अयं पदातिसंघातः, क्षीरनीरेश्वरोपमः । मत्तः प्रयोजनं ज्ञात्वा, सुवे
KAMISHAHARASSA
| निष्क्रमणायोत्सवः
॥२२७॥
Jain Education Intern
For Private & Personel Use Only
MPTimelibrary.org