SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥ २२६ ॥ Jain Educat तद्युक्तमयुक्तं वा क्षन्तुमर्हति देवो, नृपतिराह - सखे! सदुपदेशदानाधिकारिणां भवतां शिष्यकल्पे मय्यप्यलमियता संभ्रमेण वदतु वि| वक्षितं निर्विकल्पमार्थः, सुबुद्धिरुवाच – देव !, यद्येवं ततो यत्तावदुक्तं देवेन यथा 'ममात्र मनीषिणि गुरुः स्नेहातिरेकः' तद्युक्तमेव, यतः समुचितो महतां गुणिषु पक्षपातः, स हि क्रियमाणः पापाणुपूगं दलयति सदाशयं स्फीतयति सुजनतां अनयति यशो वर्धयति धर्ममु| पचिनोति मोक्ष योग्यतामालक्षयतीति, यत्पुनरुक्तं 'यथा कथविदुपप्रलोभ्य कियन्तमपि कालमेव धारणीय इति' तन्न न्याय्यं, प्रत्युतानुचितमाभासते, यतो नैवमस्योपरि स्नेहानुबन्धो दर्शितो भवति, किं तर्हि ?, प्रत्युत प्रत्यनीकतां संपद्यते, तथाहि — घोरसंसारकान्तारचा - रनिःसारकाम्यया । प्रवर्तमानं जैनेन्द्रे, धर्मे जीवं जगद्धिते ॥ १ ॥ मनसा वचसा सम्यक्क्रियया च कृतोद्यमः । प्रोत्साहयति यस्तस्य, स बन्धुः स्नेहनिर्भरः ॥ २ ॥ अलीकस्नेहमोहेन, यस्तु तं वारयेज्जनः । स तस्याहितकारित्वात्परमार्थेन वैरिकः ॥ ३ ॥ तस्मान्न वारणीयोऽयं, स्वहितोद्यतमानसः । एवमारभतां देव !, स्नेहोऽत्र विहितो भवेत् ॥ ४ ॥ न चैष शक्यते देव !, कृतैर्यत्नशतैरपि । मनीषी लोभमानेतुं विषयैर्देविकैरपि ।। ५ ।। " यतः प्रादुर्भूतोऽस्य महात्मनो विषयविषविपाकावेदनचतुरे भगवद्वचने सुनिश्चितः प्रबोधः विस्फुरितं "सकलमलकालुष्यक्षालनक्षमं हृदयसरोवरे विवेकरत्नं समुल्लसितं यथावस्थितार्थस्वरूपनिरूपणनिपुणं सम्यग्दर्शनं संजातोऽस्य निःशेषदोषमो"धकरश्चरणपरिणामः सति च भगवदवलोकनया जीवस्यैवंविधे कल्याणाभिनिवेशकारिणि गुणकदम्बके न रमते विषयेषु चित्तं प्रतिभा“सते हेयत्वबुद्ध्या भवप्रपञ्चः इन्द्रजालायते निःसारतया सकलं जगद्विलसितं स्वप्नदर्शनायते क्षणदृष्टनष्टतया जनसमागमः न निवर्तते “प्रलयकालेऽपि कस्यचिदनुरोधेन मोक्षमार्गस्य साघनप्रवणा बुद्धिः,” तदेवंस्थिते देव ! अस्योपप्रलोभनमाचरतामस्माकं केवलं मोहविलसितमाविर्भविष्यति न पुनः काचिदभिप्रेतार्थसिद्धिः, तद्लमनेनास्थानारम्भेणेति, नृपतिराह— यद्येवं ततः किं पुनरधुना प्राप्तकालं ?, सुबु ational For Private & Personal Use Only मनीषिणो दीक्षाया राज्ञो वि लम्बेच्छा सुबुद्धिकृताऽनु शास्तिः ॥ २२६ ॥ w.jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy