SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ जरुषाः प्ररूपिताः, तेषामुत्कृष्टतमास्तावत्सकलकर्मप्रपञ्चरहिताः सिद्धा अभिधीयन्ते, जघन्यमध्यमोत्कृष्टाः पुनरेत एव बालमध्यमबुद्धिमनीतृ. ३-प्र. पिणो विज्ञेयाः, अतः कर्मविलासो राजा यो भगवता प्रतिपादितः स एतेषामेवंविधस्वरूपाणां जनको निजनिजकर्मोदयो विज्ञेयः, स एव हि यथावर्णितवीर्यो नापरः, तस्य च तिस्रः शुभाशुभमिश्ररूपाः परिणतयः, ता एव भगवताऽमीषां मनीषिबालमध्यमबुद्धीनां शुभ॥२२५॥ सुन्दर्यकुशलमालासामान्यरूपति नामभिर्जनन्य इति प्रतिपादिताः, ता एव यतोऽमूनीदृशरूपतया जनितवत्यः, नृपतिराह–स त_मीषां वयस्यः कोऽभिधीयतां ?, सुबुद्धिरुवाच-देव! तत् सर्वानर्थकारि स्पर्शनेन्द्रियं विज्ञेयं, नृपतिना चिन्तितं-अये! मयाऽपीदं भगवता मनीषिणो कथ्यमानं सर्वमाकर्णितमासीत् , केवलं न सम्यग् विज्ञातं यथाऽनेन, तदस्य सुबुद्धेरेवंविधबोधेन सुसाधुभिः सह चिरपरिचयः कारणं, दीक्षायां अहो वचनकौशलं भगवतां, कथितमेवातस्तदाऽमीषां मनीषिप्रभृतीनां सम्बन्धि सर्वमन्यव्यपदेशेन चरितं, अथवा किमत्र चित्रं ?, अत राज्ञो विएव प्रबोधनरतयस्ते भगवन्तोऽभिधीयन्ते, तदेवं विचिन्त्याभिहितमनेन-सखे! पर्याप्तमिदानी, विदितोऽस्माभिरेष वृत्तान्तः, केवलमि लम्बेच्छा दमिदानीमभिधीयते यदुत-यद्येष मनीषी विषयानुषङ्गं कियन्तमपि कालं भजेत ततो वयमप्यनेनैव सह दीक्षाग्रहणं कुर्वीमहि, यतः४ सुबुद्धिकृप्रथमदर्शनादारभ्य प्रवर्धते ममास्योपरि स्नेहानुबन्धः न संचरति विरहकातरतयाऽन्यत्र हृदयं न निवर्तेयातामेतद्वदनकमलावलोकनाल्लो ताऽनुचने, ततो नास्य विरहे वयं क्षणमप्यासितुमुत्सहामहे न च तथाविधोऽद्यापि अस्माकमाविर्भवति चरणकरणपरिणामः, तदेनं तावदभ्य शास्तिः ४र्थय प्रणयस्नेहसारं अनुभावय निरुपचरितशब्दादिभोगान् प्रकटयास्य पुरतस्तत्स्वामिभावं दर्शय वजेन्द्रनीलमहानीलकर्केतनपद्मरागम-4 रकतवैडूर्यचन्द्रकान्तपुष्परागादिमहारत्नपूगान् दर्शयापहसितत्रिदशसुन्दरीलावण्याः कन्यकाः सर्वथा कथश्चिदुपप्रलोभय यथा कियन्तमपि कालमस्मत्समीहितमेष मनीषी निर्विचारं संपादयति, सुबुद्धिनाऽभिहितं यदाज्ञापयति देवः, केवलमत्रार्थे किश्चिदई विज्ञापयामि ॥ २२५॥ Jain Educa t ional For Private & Personel Use Only A Mjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy