________________
उपमितौ तृ. ३-प्र.
॥२२४॥
', सुबुद्धिनाभितथाविधाध्यवसाय बुद्धिराह-वनितोऽयमशुभपारवाहमेवं तर्कयामत, यतो न किञ्चिदा
इति तत्र निवेदितमेव भगवद्भिः कारणं, किं च अभिधानमेव तत्संबन्धि विचार्यमाणं संदेहं दलयति, यतो न किञ्चिदाश्चर्य यद्बालाः पापनिवारणसामग्रीसद्भावेऽपि पापाचरणेषु प्रवर्तन्त इति, अन्यच्च-भगवदुपदेशादेवाहमेवं तर्कयामि यदुत-द्रव्यक्षेत्रकालभावभवाद्यपेक्षया प्राणिनां शुभाशुभपरिणामा भवन्ति, तदस्य बालस्य क्षेत्रजनितोऽयमशुभपरिणामः, नृपतिराह-ननु गुणाकरस्तज्जैनसदनं तदेव तत्र क्षेत्रं तत्कथं तदशुभपरिणामहेतुर्भवेदिति, सुबुद्धिराह-देव! न मन्दिरदोषोऽसौ, किं तर्हि ?, तद्यानदोषः, तदुद्यानं तत्र सामान्यक्षेत्रं, तच्च हेतुस्तस्य बालस्य तथाविधाध्यवसायस्येति, नृपतिराह-यदि दुष्टाध्यवसायहेतुस्तदुद्यानं ततोऽस्माकं किमिति लिष्टचित्तकारणं तन्न सम्पन्नं ?, सुबुद्धिनाऽभिहितं-देव! विचित्रस्वभावं तत्काननं पुरुषादिकमपेक्ष्यानेकाकारकार्यकारक संपद्यते, अत एव तन्निजविल-14 सितमिति नाम्ना गीयते, प्रकटयत्येव तजन्तूनां सविशेषसहकारिकारणकलापैर्निज निजं विलसितं, तथाहि-तस्य बालस्य तेन स्पर्शनेन |तया चाकुशलमालया युक्तस्य मदनकन्दलीं प्राप्य तेन तथाविधाध्यवसायः, मनीषिमध्यमबुद्धियुष्मदादीनां पुनर्विशिष्टपुरुषाणां पुण्यप्राग्भा|रवतां सूरिपादप्रसादमासाद्य तेनैव सर्वविरतिदेशविरतिपरिणामादयो भावा जनिताः, यद्यपि चेह सर्वस्यैव कार्यस्योत्पत्तौ द्रव्यक्षेत्रका|लस्वभावकर्मनियतिपुरुषकारादयः कारणविशेषा दृष्टादृष्टाः समुदायेनैव हेतुभावं भजन्ते, नैकः कचित्कस्यचित्कारणं, तथापि विवक्षयै
कर्मविलाकस्यापि कारणत्वं वक्तुं शक्यत इति, तन्निजविलसितमुद्यानमस्माभिर्नानाविधभावनिबन्धनमभिधीयत इति, नृपतिराह-सखे ! चारूक्त
सादिस्वरू| मिदमिदानीं, यद्भवता तदाऽभिहितमासीत् भगवतः पुरतो यथा-अहं देवायाऽस्य कर्मविलासस्य राज्ञः स्वरूपं निवेदयिष्यामि तन्निवे
पाख्यानं लादयतु भवान् अहं श्रोतुमिच्छामि, सुबुद्धिराह-देव! यद्येवं ततो विविक्ते स्थीयतां देवेन, नृपतिनोक्तमेवं भवतु, ततोऽनुज्ञातौ मनी- ॥२२४॥ (षिणा समुत्थायास्थानमण्डपात् प्रविष्टौ कक्षान्तरे राजामात्यौ, सुबुद्धिनाऽभिहितं-देव! अयमत्र परमार्थो 'ये ते भगवता चत्वारः पु
Jain Education
For Private
Personel Use Only