SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ उपमितौ तु. ३-प्र. ॥२२३॥ तदत्र न विषादो मे, कर्तु युक्तः प्रयोजने । यतो द्वितीयलेखाऽपि, माशैरतिदुर्लभा ॥ ४ ॥ तथाहि-भवेत्सर्वोत्तमस्तावत्पुरुषो यदि पारयेत् । अशक्तो मध्यमोऽपि स्यान्न जघन्यः कदाचन ॥ ५ ॥ मिथ्याभिमानो नैवायमेक एवाभवत्पुरा । किं तर्हि ! बहवोऽन्येऽपि, किं वा मे चिन्तया तया? ॥ ६॥ एवं चिन्तयति राजनि सुबुद्धिराह-देव! सम्यगवधारितं देवेन यथैष महोपकारक इति, यतो जिनधर्मानुष्ठाने प्रवर्तमानस्यास्य जीवस्य यो निमित्तमात्रमपि भवति न ततोऽन्यः परमोपकारी अगति विद्यते, नृपतिराह-एवमेतश्नात्र सन्देहः, केवलमिदानीं एष मे मनसि वितर्को भगवद्वचनानुस्मरणेनासकृनिराकृतोऽपि निर्लजब्राह्मण इव प्रैकरणे पुनः पुनः प्रविशतीति बालगततदेनमपनेतुमर्हत्यायः, सुबुद्धिराह-कीशोऽसौ ?, नृपतिरुवाच-समाकर्णय, स्वसंवेदनसंसिद्धमिदमासीत्तदा यदुत-तत्र चैत्यभवने विकारजाप्रविष्टमात्राणामस्माकं शान्तानीव सर्वद्वन्द्वानि उच्चाटितेव केनचिद्राज्यकार्यचिन्तापिशाचिका विलीनमिव सकलमोहजालं विध्यात इव *श्चर्याख्यान विपरीताभिनिवेशग्रहः निर्वतममृतसेकसम्पर्केणेव शरीरं सुखसागरावगाढमिव हृदयं क्षणमात्रेणासीत्, यत्पुनर्नमस्कृतभुवननाथस्य | प्रणतगुरुचरणस्य वन्दितमुनिवृन्दस्य भगवद्वचनामृतमाकर्णयतस्तत्र मे निरुपमं सुखसंवेदनमभूत् तत्सकलं वाग्गोचरातीतमितिकृत्वा न | शक्यते कथयितुं, तदेवंविधेऽपि तत्र जैनेन्द्रमन्दिरे सग्निहितेऽपि तादृशे भगवति गुरौ कथयति रागविषशमनं विरागमार्ग नेदीयसि शा-1|| सामय्या न्तचित्ते तपखिलोकेऽपि सति तावति जनसमुदये कथं बालस्य तथाविधोऽध्यवसायः सम्पन्न इति, सुबुद्धिनाऽभिहितं-देव! यत्तावदुक्तं बलाबलते देवेन यथा 'तत्र जिनमन्दिरे प्रविष्टमात्रस्य मे क्षणमात्रेणाचिन्तितगुणसन्दोहाविर्भावोऽभूदिति तन्नाश्चर्य, प्रमोदशेखरं हि तद्भवनमभिधीयते, हेतुरेव तत्तादृशगुणकलापस्य, यत्पुनरभ्यधायि यथा-कथं पुनस्तस्यैवंविधसामन्यामपि बालस्य तथाविधोऽध्यवसायः संपन्न |॥ २२३॥ १ मध्यमजनताऽपि. २ संखण्ड्या (जेमने ). Jain Education For Private & Personel Use Only (Colinelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy