SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ उपमितौ तु. ३-प्र. ॥२२३॥ तदत्र न विषादो मे, कर्तु युक्तः प्रयोजने । यतो द्वितीयलेखाऽपि, माशैरतिदुर्लभा ॥ ४ ॥ तथाहि-भवेत्सर्वोत्तमस्तावत्पुरुषो यदि पारयेत् । अशक्तो मध्यमोऽपि स्यान्न जघन्यः कदाचन ॥ ५ ॥ मिथ्याभिमानो नैवायमेक एवाभवत्पुरा । किं तर्हि ! बहवोऽन्येऽपि, किं वा मे चिन्तया तया? ॥ ६॥ एवं चिन्तयति राजनि सुबुद्धिराह-देव! सम्यगवधारितं देवेन यथैष महोपकारक इति, यतो जिनधर्मानुष्ठाने प्रवर्तमानस्यास्य जीवस्य यो निमित्तमात्रमपि भवति न ततोऽन्यः परमोपकारी अगति विद्यते, नृपतिराह-एवमेतश्नात्र सन्देहः, केवलमिदानीं एष मे मनसि वितर्को भगवद्वचनानुस्मरणेनासकृनिराकृतोऽपि निर्लजब्राह्मण इव प्रैकरणे पुनः पुनः प्रविशतीति बालगततदेनमपनेतुमर्हत्यायः, सुबुद्धिराह-कीशोऽसौ ?, नृपतिरुवाच-समाकर्णय, स्वसंवेदनसंसिद्धमिदमासीत्तदा यदुत-तत्र चैत्यभवने विकारजाप्रविष्टमात्राणामस्माकं शान्तानीव सर्वद्वन्द्वानि उच्चाटितेव केनचिद्राज्यकार्यचिन्तापिशाचिका विलीनमिव सकलमोहजालं विध्यात इव *श्चर्याख्यान विपरीताभिनिवेशग्रहः निर्वतममृतसेकसम्पर्केणेव शरीरं सुखसागरावगाढमिव हृदयं क्षणमात्रेणासीत्, यत्पुनर्नमस्कृतभुवननाथस्य | प्रणतगुरुचरणस्य वन्दितमुनिवृन्दस्य भगवद्वचनामृतमाकर्णयतस्तत्र मे निरुपमं सुखसंवेदनमभूत् तत्सकलं वाग्गोचरातीतमितिकृत्वा न | शक्यते कथयितुं, तदेवंविधेऽपि तत्र जैनेन्द्रमन्दिरे सग्निहितेऽपि तादृशे भगवति गुरौ कथयति रागविषशमनं विरागमार्ग नेदीयसि शा-1|| सामय्या न्तचित्ते तपखिलोकेऽपि सति तावति जनसमुदये कथं बालस्य तथाविधोऽध्यवसायः सम्पन्न इति, सुबुद्धिनाऽभिहितं-देव! यत्तावदुक्तं बलाबलते देवेन यथा 'तत्र जिनमन्दिरे प्रविष्टमात्रस्य मे क्षणमात्रेणाचिन्तितगुणसन्दोहाविर्भावोऽभूदिति तन्नाश्चर्य, प्रमोदशेखरं हि तद्भवनमभिधीयते, हेतुरेव तत्तादृशगुणकलापस्य, यत्पुनरभ्यधायि यथा-कथं पुनस्तस्यैवंविधसामन्यामपि बालस्य तथाविधोऽध्यवसायः संपन्न |॥ २२३॥ १ मध्यमजनताऽपि. २ संखण्ड्या (जेमने ). Jain Education For Private & Personel Use Only (Colinelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy