SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥२२२॥ र्थमभिधीयन्ते, प्रबुद्धा एव ह्येवंविधपुरुषा जायन्ते, गुरवः केवलमीदृशां प्रतिवोधे निमित्तमात्रं भवन्ति, इतश्च मनीषिणो राजमन्दिरे मनीषिण प्रवेशावसरे राजानमनुज्ञाप्यादित एव सुबुद्धिना साधर्मिकवात्सल्येन मध्यमबुद्धिर्नीत आसीदात्मीयसदने कारितस्तदागमननिमित्तः पर- आस्थामानन्दो दत्तानि महादानानि, ततः सोऽपि निर्वर्तितस्नानभोजनताम्बूलविलेपनालङ्करणनेपथ्यमाल्योपभोगकर्तव्यः स्नेहनिर्भरसुबुद्धितत्प-10 न्यामा8 रिकरनिरुपचरितस्तुतिगर्भपेशलालापसमानन्दितहृदयः समागतस्तत्रैवास्थाने कृतोचितप्रतिपत्तिः ससम्भ्रमं मनीषिणा दापिते तदुपकण्ठ-81 स्थानं ध मगोष्टी च मुपविष्टो महति विष्टरे, ततो राजा तमुद्दिश्य सुबुद्धिं प्रत्याह-सखे ! महोपकर्ताऽयमस्माकं महापुरुषः, सुबुद्धिनाऽभिहितं-देव! कथं?, नृपतिराह-समाकर्णय, यतो भगवतोपदिष्ट तस्मिन्नप्रमादयत्रे तस्य दुरनुष्ठेयतामालोचयतो मम महासमरे कातरनरस्येव प्रादुर्भूता चित्ते समाकुलता ततोऽहमनेन महात्मना तत्रावसरे भगवन्तं गृहिधर्म याचयता तद्ब्रहणबुड्युत्पादकत्वेन समाश्वासितो यतो जातो गृहिधर्माजीकरणेनापि मे चेतसा महानवष्टम्भः, ततो ममायमेव महोपकारक इति, सुबुद्धिनाऽभिहितं-देव! यथार्थाभिधानो मध्यमबुद्धिरेष, समानशीलव्यसनेषु सख्यमिति च लोकप्रवादः, ततः समानशीलतया युक्तमेवास्य मध्यमजनानां समाश्वासनं, नृपतिना चिन्तितंअये! ममायं मिथ्याभिमानश्चेतसीयन्तं कालमासीत् किलाहं नरेन्द्रतया पुरुषोत्तमो यावताऽधुनाऽनेन सुबुद्धिनाऽर्थापत्या गणितोऽहं मध्यमजनलेख्ये ततो घिन मिथ्याभिमानिनमिति, अथवा वस्तुस्थितिरेषा न मयाऽत्र विषादो विधेयः, तथाहि-जेन्द्रस्तावदाभाति, शूरः सबासकारकः । यावद्भासुरदंष्ट्रानो, न सिंह उपलभ्यते ॥ १॥ यदा सिंहस्य गन्धोऽपि, स्यादाघ्रातः करेणुना । जायते कम्पमा- ॥२२२॥ नोऽसौ, तदाऽहो कातरः करी ॥२॥ मनीषिणमपेक्ष्यातो, युक्ता मे मध्यरूपता । भयं सिंहो महाभागो, मादृशाः करिकातराः ॥ ३ ॥ 6-1964 For Private Personel Use Only Kriainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy