________________
उपमितौ
तू. ३-प्र.
॥ २२१ ॥
Jain Educatio
क्षोदाङ्गरागे विन्यस्तप्रवरभूषणे दिव्यांशुकाच्छादितशरीरे माल्यविच्छित्तिसौरभाकृष्टहृष्टचञ्चरीके अध्यासितमहार्हसिंहासने प्रणतासंख्यमहासामन्तकिरीटांशुजालरञ्जितचरणे उद्दामबन्दिस्तूयमानयथावस्थितगुणसन्दोहे दत्तास्थाने मनीषिणि हर्षातिरेकनिर्भरो राजा सुबुद्धिं प्रत्याह — सखे ! युष्मदनुभावजन्येयमस्मादृशां कल्याणपरम्परा, येनोत्साहितोऽहं भवता भगवद्वन्दनाय, तथाहि — विलोकितो मया नाथो, जगदानन्ददायकः । भक्तिनिर्भरचित्तेन, वन्दितो भुवनेश्वरः ॥ १ ॥ दृष्टः कल्पद्रुमाकारः, स सूरिर्वन्दितो मुदा । लब्धो भागवतो धर्मः, संसारोच्छेदकारकः ॥ २ ॥ जातश्चेदृशरूपेण, नररत्नेन मीलकः । कृतश्चानेन सर्वेषामस्माकं हृदयोत्सवः ॥ ३ ॥ अथवा किमत्राश्चर्यम् ? – महाभागाः प्रजायन्ते, परेषां तोषवृद्धये । स्वकार्यमेतदेवैषां यत्परप्रीतिकारणम् ॥ ४ ॥ तदस्य युक्तमेवेदं विधातुं पुण्यकर्मणः । ममाद्भुतमिदं जातं, क डोम्बः क तिलाढकम् ? ॥ ५ ॥ तदेवंविधकल्याणमालिका मित्रवत्सल ! । एवमाचरता नूनं, त्वया संपादिता मम ॥ ६ ॥ राज्ञो हितकरो मन्त्री, सुप्रसिद्धं जगत्रये । तस्मात्तत्रैव मन्त्रित्वं यथार्था ते सुबुद्धिता ॥ ७ ॥ सुबुद्धिरुवाच — देव ! मा मैवमादिशत, न खलु देव ! पुण्यप्राग्भारायत्तजीवितव्येऽत्र किङ्करजनेऽप्येवमतिगौरवमारोपयितुमर्हति देवः, अस्याः संपादने केऽत्र वयं ?, उचित एव देवः खल्वेवंविधकल्याणपरम्परायाः, नैव हि निर्मलाम्बरतले निशि प्रकाशमाना रुचिरा नक्षत्रपद्धतिः कस्य - चिदसम्भावनीयेत्याश्चर्यबुद्धिं जनयति, मनीषिणाऽभिहितं - महाराज ! भगवति सप्रसादे कियतीयमद्यापि भवतः कल्याणपरम्परा ? भाविदिनश्री सम्बन्धस्येव गगनतलस्यारुणोद्योतकल्पो हि भवतो भविष्यत्केवलालोकसचिवपरमपदानन्तानन्दसन्दोहसम्बन्धस्य प्राथमकल्पिकः खल्वेष सम्यग्दर्शनजनितः प्रमोदः, नृपतिरुवाच – नाथ ! महाप्रसादः, कोऽत्र सन्देहः ?, किं न संपद्यते युष्मद्नुचराणां ?, ततो मन्त्रिणं प्रत्याह- सखे ! पश्यामीषामद्यदिनप्रबुद्धानामपि विवेकातिशयः, सुबुद्धिरुवाच – देव! किमत्र चित्रं ? मनीषिणः खल्वेते यथा
tional
For Private & Personal Use Only
मनीषिण
आस्थान्यामा
स्थानं धर्मगोष्टी च
॥ २२१ ॥
jainelibrary.org