SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥ २२० ॥ Jain Education प्रविवेश कृतस्तुतिः ॥ युग्मम् ॥ १२ ॥ तद्यथा — धन्योऽयं कृतकृत्योऽयं, महात्माऽयं नरोत्तमः । अस्यैव सफलं जन्म, भूषिताऽनेन मेदिनी ॥ १३ ॥ अस्त्येव धन्यताऽस्माकं येषामेष स्वपत्तने । संजातो न ह्यधन्यानां, रलपुञ्जेन मीलकः ॥ १४ ॥ ततश्व - कामि नीनयनानन्दं कुर्वाणोऽर्थाभिलाषिणाम् । ददानश्च महादानं दधानो देवरूपताम् ॥ १५ ॥ सद्धर्मे पक्षपातं च देहिनामात्मचेष्टितैः । जनयञ्जनितानन्दो, विचचार पुरेऽखिले ॥ १६ ॥ ततो महाविमर्देन, सम्प्राप्तो राजमन्दिरम् । रत्नराशिप्रभाजालैः, सदा बद्धेन्द्रकार्मुकम् ॥ १७ ॥ तत्र चाशेषराजादिलोकसन्मानमानितः । सकामकामिनीवृन्दलोललोचनवीक्षितः ।। १८ ।। गीतनृत्यप्रबन्धेन, सोऽमरालयविभ्रमे । देवराजवदास्थानं, दत्त्वा निःशङ्कमानसः ॥ १९ ॥ ततो विलीनरागोऽपि नृपतेस्तोषवृद्धये । उत्थाय मज्जनस्थानं, जगाम गतविस्मयः ॥ २० ॥ तत्र च गतस्य तस्य — भ्रातुः सूनोरिवात्यन्तवल्लभस्य सगौरवम् । कृतं मदनकन्दल्या, शरीरपरिमार्जनम् ॥ २१ ॥ शेषान्तःपुरनारीभिर्व्यप्राभिः स्नानकर्मणा । रराज पेशलालापचारुभिः परिवारितः ।। २२ ।। वज्रेन्द्रनीलवैडूर्यपद्मरागादिरोचिषा । रञ्जिते वापीनां, ममज्ज विमले जले ॥ २३ ॥ ततो भुजगनिर्मोकसूक्ष्मशुक्कु सुवाससी । परिधाय गतो देवभवनं सुमनोहरम् ॥ २४ ॥ तत्र च - सुबुद्धिसम्बन्धिनि विरचनाचारुतया चित्तनिर्वाणकारिणि जिनमन्दिरे मार्गानुसारितया परमार्थतः सकलकालहृदयवर्तिनोऽपि विशेषतस्तद्दिन एव प्रबोधनरतिसूरिपादप्रसादोपलब्धस्वरूपस्य सकलनिष्कलावस्थस्य भगवतः परमात्मनो रागद्वेषविषापहरणकरणचतुरमनुस्मृतमर्हतः स्वरूपं ततो निर्गत्य विरलविरलाप्तपरिजनः पूर्वोपकल्पिताशेषभोजनोपकरणसामग्रीसनाथं प्राप्तो भोजनमण्डपं तत्र च विरचितानेकाकारे चित्तरसनोत्सवकारिणि भक्ष्यपेयाद्याहारविस्तारे नृपतिना स्वयमुपदिश्यमानमभिमतरसास्वादनं तदनुरोधेन विदधानो निरभिष्वङ्गतया वर्धमानस्वास्थ्यातिरेको निर्वर्तयामास भोजनमिति, ततो गृहीतपञ्चसुगन्धिकोन्मिश्रताम्बूले मलयजमृगनाभिकश्मीरज For Private & Personal Use Only ४५ भोजन नि मन्त्रणा ॥ २२० ॥ Felibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy