SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥२१९॥ राज्ञोऽनुमोदना हलाकलकलः गीयन्तेऽन्तरान्तरा प्रशमसुखरसास्वादावेदनचतुराणि भगवत्साधुगुणसम्बन्धप्रवणानि श्रवणोत्सवकारीणि गीतकानि पठ्यन्ते परिशुद्धगम्भीरेण ध्वनिना सर्वज्ञप्रणीतप्रवचनोन्नतिकराणि रागादिविषधरपरममत्ररूपाणि भावसारं महास्तोत्राणि प्रवृत्तानि विविधकर| णाङ्गहारहारीणि प्रमोदातिरेकसूचकानि महानृत्त्यानि, तदेवं महता विमर्दैन सुरासुरैरिव कनकगिरिशिखरे निर्वर्तिते भगवदभिषेकमङ्गले पूजितेषु सविशेष भुवनाधिनाथबिम्बेषु विहितेषु निःशेषकृत्यविधानेषु वन्दितेषु साधुलोकेषु दत्तेषु महादानेषु सन्मानितेषु विशेषतः साध| मिकेषु मनीषिणः स्वगेहनयनाय प्रह्वीकारितो नरपतिना गजः आरोपितस्तत्र मनीषी स्थितोऽस्य स्वयमातपत्रधारकः, घोषितं च नरपतिना हर्षातिरेकरोमाञ्चितवपुषा बृहता शब्देन यदुत भो भोः सामन्ता भो भो मत्रिमहत्तमाः! समाकर्णयत यूयम्-विभूतिरत्र संसारे, नरस्य ननु तत्त्वतः । सत्त्वमेवाविगानेन, प्रसिद्धं सर्ववेदिनाम् ॥ १॥ ततो यस्याधिकं सत्त्वं, नरस्येह प्रकाशते । स शेषनरवर्गस्य, प्रभुत्वं कर्तुमर्हति ॥ २ ॥ एवं च स्थिते-सत्त्वोत्कर्षस्य माहात्म्यं, यदत्रास्य मनीषिणः । तदृष्टमेव युष्माभिः, सर्वैरेव परिस्फुटम् ॥ ३ ॥ यत्तद्भगवताऽऽविष्टं, मादृशां त्रासकारणम् । अनेन रभसा यत्रं, याचितं तन्महात्मना ॥ ४ ॥ तदेष यावदस्माकं, सदनुग्रहकाम्यया । | गृहे तिष्ठति तावनः, स्वामी देवो गुरुः पिता ॥ ५॥ वयमस्य भवन्तश्च, सर्वे किकरतां गताः । विधूतपापमात्मानं, विनयात्करवामहे ॥ ६ ॥ ततः समस्तैस्तैरुक्तं, प्रमोदोद्धरमानसैः । यदादिशति राजेन्द्रः, कस्मै तन्नात्र रोचते ॥ ७ ॥ अत्रान्तरेऽतितोषेण, देहस्था सा मनीषिणः । विजृम्भिता विशेषेण, जननी शुभसुन्दरी ॥ ८॥ ततः सश्रीकतामाप्य, क्षणेन भुवनातिगाम् । रराज राजलोकेन, परिवा| रितविग्रहः ॥९॥ करेणुकाधिरूढेन, सह मध्यमबुद्धिना । अथाऽवाप पुरद्वारं, स्तूयमानः सुबुद्धिना ॥ १०॥ ततोच्छ्रितपताके च, | देहशोभामनोरमे । विशेषोज्वलनेपथ्ये, हर्षात्सम्मुखमागते ॥ ११ ॥ अथासौ नगरे तत्र, मनीषी तोषनिर्भरैः। एवं नागरिकैलोकः, ॥२१९॥ Jain Education a l For Private & Personel Use Only Wanelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy