SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-अ. ॥२१८॥ निवेश्य बिम्ब जैनेन्द्र, विधिनाऽऽरम्भि मजनम् ॥ १४॥ युग्मम् । तत्र च-सातस्य शुभवलस्य, किरीटाङ्गदधारिणः । गोशीर्षेण विलितस्य, हारराजितवक्षसः ॥ १५॥ कुण्डलोद्भासिगण्डस्य, शक्राकारानुकारिणः । बहिःशान्तविकारस्य, निर्मलीभूतचेतसः ॥१६॥ महत्तमोऽयमस्माकमेष एव च नायकः । एष एव महाभाग, एष एव च पूजितः ॥ १७ ॥ येन भागवती दीक्षा, दुष्करापि जिघृक्षिता। एवं प्रभाषमाणेन, नरेन्द्रेण मनीषिणः ॥ १८ ॥ सत्तीर्थोदकसम्पूर्णस्तापनीयो मनोहरः। सद्धर्मसारसम्पूर्णमुनिमानससन्निभः ॥ १९॥ गोशीर्षचन्दनोन्मियो, दिव्यपद्यावृताननः । समन्ताश्चर्चितः शुभैश्चारुचन्दनहस्तकैः ॥ २० ॥ संस्थाप्य प्रथममात्रे, सात्रकारतया मुदा! समर्पितोऽभिषेकार्थ, दिव्यकुम्भो भवच्छिदः ॥ २१ ॥ सप्तभिः कुलकम् । आनन्दपुलकोभेदं, दधानो भक्तिनिर्भरः । जप्राह नृपतिः कुम्भ, स्वयमेव द्वितीयकम् ॥ २२ ॥ तथा मध्यमबुद्धिश्च, सपुत्रः स सुलोचनः । कृतो भुवननाथस्य, स्नात्रकारणतत्परौ ॥ २३ ॥ चन्द्रोद्योतच्छटाकछेन, चामरेण विभूषिता । स्थिता त्रिलोकनाथस्य, पुरो मदनकन्दली ॥ २४ ॥ द्वितीया स्थापिता राज्ञा, तस्याश्चामरधारिणी । देवी पद्मावती नाम, तदाकारानुकारिणी ॥२५॥ धूपभाजनमादाय, गाढं भावितमानसः । सुबुद्धिर्वधितानन्दः, स्थितोऽप्रे पिहिताननः ॥ २६ ॥ तेनैव राजादिष्टेन, शेषकर्मसु सादरम् । ये ये श्रेष्ठत्तमा लोकास्ते ते सम्यङ् नियोजिताः ॥ २७ ॥ यतः–त एव कृतिनो लोके, ते जातास्ते समुन्नताः । ते कलालापविज्ञानशालिनस्ते महाधनाः ॥ २८ ॥ ते रूपवन्तस्ते शूराः, कुलस्यापि विभूषणाः । ते सर्वगुणसम्पूर्णाः, श्लाघ्यास्ते भुवनत्रये ॥ २९ ॥ किङ्करीकृतशक्रस्य, लोकनाथस्य मन्दिरे । येऽत्र किङ्करतां यान्ति, नराः कल्याणभागिनः ॥३०॥ त्रिभिर्विशेषकम् । ततः प्रवृत्तो भगवतोऽभिषेकमहोत्सवः, पूरयन्ति दिक्चक्रवालमुद्दामदेवदुन्दुभिनिर्घोषाः बधिरयन्ति जनकर्णकोटराणि रटत्पटहपाटवप्रतिनादसंमूर्च्छिता विविधतूर्यनिनादाः समुल्लास्यते कणकणकभाणकरवोन्मिश्रः कलका दीक्षोत्सवे श्रीजिना| भिषेक ४ ॥२१८॥ Join Educat on For Private Personel Use Only H ainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy