SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उपमितौलसमाकर्णय कारणम् ॥ ४॥ यतः कर्मविलासोऽयमन्तरङ्गो महानृपः । अतो न दर्शनं याति, सर्वदैव भवादृशाम् ॥ ५॥ अन्तरङ्गा हिमनीषिणो तृ. ३-प्र. ये लोकास्तेषां प्रकृतिरीहशी । स्थिताः प्रच्छन्नरूपेण, सर्वकार्याणि कुर्वते ॥ ६॥ केवलं बुद्धिदृष्ट्यैव, धीराः पश्यन्ति तान् सदा । आवि- भावदीक्षा माभूता इवाभान्ति, अन्येषामपि तत्पुरः ॥ ७॥ न चावभावना कार्या, भवताऽत्र प्रयोजने । न केवलं यतोऽनेन, भवानेव पराजितः ॥८॥ ॥२१६॥ किंतु प्रायेण सर्वेऽपि, संसारोदरवर्तिनः । स्ववीर्येण विनिर्जित्य, प्रभवोऽपि वशीकृताः ॥ ९॥ ततो गृहीततत्त्वेन, राजा प्रोक्तः सुबु|द्धिना । देव! ज्ञातो मयाऽप्येष, राजा योऽवर्णि सूरिणा ॥ १०॥ देवाय कथयिष्यामि, रूपमस्य परिस्फुटम् । अहमेव भदन्तैस्तु, सर्व४ मेव निवेदितम् ॥ ११ ॥ इतश्च-विज्ञायावसरं तेन, पूर्व संजातबुद्धिना। अथाऽऽनतशिरस्केन, प्रोक्तं मध्यमबुद्धिना ॥ १२ ॥ योऽसौ भगवताऽऽदिष्टः, संसारतनुताकरः । गृहिधर्मः स मे नाथ!, दीयतामुचितो यदि ॥ १३ ॥ गुरुरुवाच-श्रुत्वा भागवतीं दीक्षा, न । कर्तुं शक्नुवन्ति ये । तेषां गृहस्थधर्मोऽसौ, युक्त एव भवादृशाम् ॥ १४ ॥ नृपतिरुवाच-भदन्त ! किंवरूपोऽयं, गृहिधर्मोऽभिधीयते । मासूरिराह महाराज!, समाकर्णय कथ्यते ॥ १५॥ ततो भगवता वर्णितं परमपदकल्याणपादपनिरुपहतबीजं सम्यग्दर्शनं प्रतिपादि| तानि संसारतरुकन्दच्छेद(क)तया चिरेण स्वर्गापवर्गमार्गसंसर्गकारीण्यणुव्रतगुणव्रतशिक्षापदानि, ततः सजाततदावरणीयकर्मक्षयोपशमतया भावतः प्रादुर्भूतसम्यग्दर्शनदेशविरतिपरिणामेन शक्योऽयमस्मादृशामप्यनुष्ठातुं गृहस्थधर्म इति संचिन्त्य नरपतिनाऽभिहितं-भदन्त! क्रियतामेतद्दानेनास्माकमप्यनुग्रहः, भगवानाह-सुष्टु क्रियते, ततो दत्तस्तयोर्द्वयोरपि विधिना गृहिधर्मो भगवता, मनीषिदीक्षादानार्थं पुनरभ्युद्यते भगवति भगवच्चरणयोर्निपत्य नरपतिरुवाच-भदन्त ! गृहीतैवानेन महात्मना भगवतो भागवती दीक्षेति कृतकृत्य ए-ल॥२१६॥ वायमधुना वर्तते तथापि वयमेनं मनीषिणमुद्दिश्य किञ्चित्सन्तोषानुरूपमाचरितुमिच्छामः तदनुजानातु भगवानिति, तदाकर्ण्य स्थिता Jain Education For Private & Personel Use Only O nelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy