SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ उपमितौ भगवताऽभिहितं-भद्र ! न कियानपि विशेषः, केवलमनयोः शब्दो भिद्यते नार्थः, यतोऽप्रमादयन्त्रमेव परमार्थतो भागवती भावदीक्षे- मनीषिणो तृ. ३-प्र. त्यभिधीयते, मनीषिणाऽभिहितं यद्येवं ततो दीयतां भगवता सा भागवती भावदीक्षा यधुचितोऽहं तस्याः, भगवानाह-बाढमुचितः, भावदीक्षा सुष्टु दीयते, नृपतिनाऽभिहितं-भदन्त ! ममानेकसमरसंघट्टनियूंढसाहसस्यापीदमप्रमादयत्रं युष्मद्वचनतः श्रूयमाणमपि दुरनुष्ठेयतया ॥२१५॥ मनसः प्रकम्पमुत्पादयति, एष पुनः कः कुतस्त्यो महात्मा ? येनेदं सहर्षेण महाराज्यमिव जिगीषुणाऽभ्युपगतमिति, भगवताऽभिहितंमहाराज! मनीषिनामायमत्रैव क्षितिप्रतिष्ठिते वास्तव्यः, राज्ञा चिन्तितम्-अये! यदाऽयं पापः पुरुषो मया व्यापादयितुमादिष्टस्तदा लोकैः श्लाघ्यमानः श्रुत एवासीन्मनीषी यदुत-रे एकस्मादपि पितुर्जातयोः पश्यतानयोरियान् विशेषः, अस्येदं विचेष्टितं स च तथाविधो म-18 मनीषी महात्मेति, तदेष एव मनीषी प्रायो भविष्यति, अथवा भगवन्तमेव विशेषतः पृच्छामीति विचिन्त्याभिहितमनेन–भदन्त ! को है पुनरस्यात्र नगरे मातापितरौ ? का वा ज्ञातय इति ?, भगवानाह-अस्त्यस्यैव क्षितिप्रतिष्ठितस्य भोक्ता कर्मविलासो महानरेन्द्रः, सोऽस्य | जनकः, तस्यैवानमहिषी शुभसुन्दरी नाम देवी सा जननी, तस्यैवेयमकुशलमाला भार्या अयं च पुरुषो बालाभिधानः सुत इति, तथा योऽयं मनीषिणः पार्श्ववर्ती पुरुषः सोऽपि तस्यैव सामान्यरूपाया देव्यास्तनयो मध्यमबुद्धिरभिधीयते, एतावदेवात्रेदं कुटुम्बकं, शेषज्ञा-1 तयस्तु देशान्तरेषु, अतः किं तद्वार्त्तया?, नृपतिराह-किमस्य नगरस्य कर्मविलासो भोक्ता न पुनरहं ?, भगवानाह-बाढं, राजोवाच 4-कथं ?, भगवानाह-समाकर्णय, यतस्तदाज्ञां सर्वेऽपि, भीतिकम्पितमानसाः । एते नागरिका नैव, लङ्घयन्ति कदाचन ॥१॥ तवापि | राज्यहरणे, तहाने वा यथेच्छया । शक्तोऽसौ न तथा तेऽत्र, राजन्नाज्ञा प्रकाशते ॥ २॥ परमार्थेन तेनासौ, भोक्ताऽस्येत्यभिधीयते ॥२१५॥ यतः प्रभुत्वमाज्ञायां, प्रभूणां किल गीयते ॥ ३ ॥ नरपतिरुवाच-यद्येवं भगवन्नेष, कस्मान्नेहोपलभ्यते । सूरिणाऽभिहितं राजन् !, Jain Education irriha For Private & Personel Use Only PAPEnelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy