________________
उपमितौ भगवताऽभिहितं-भद्र ! न कियानपि विशेषः, केवलमनयोः शब्दो भिद्यते नार्थः, यतोऽप्रमादयन्त्रमेव परमार्थतो भागवती भावदीक्षे- मनीषिणो तृ. ३-प्र. त्यभिधीयते, मनीषिणाऽभिहितं यद्येवं ततो दीयतां भगवता सा भागवती भावदीक्षा यधुचितोऽहं तस्याः, भगवानाह-बाढमुचितः,
भावदीक्षा सुष्टु दीयते, नृपतिनाऽभिहितं-भदन्त ! ममानेकसमरसंघट्टनियूंढसाहसस्यापीदमप्रमादयत्रं युष्मद्वचनतः श्रूयमाणमपि दुरनुष्ठेयतया ॥२१५॥
मनसः प्रकम्पमुत्पादयति, एष पुनः कः कुतस्त्यो महात्मा ? येनेदं सहर्षेण महाराज्यमिव जिगीषुणाऽभ्युपगतमिति, भगवताऽभिहितंमहाराज! मनीषिनामायमत्रैव क्षितिप्रतिष्ठिते वास्तव्यः, राज्ञा चिन्तितम्-अये! यदाऽयं पापः पुरुषो मया व्यापादयितुमादिष्टस्तदा लोकैः
श्लाघ्यमानः श्रुत एवासीन्मनीषी यदुत-रे एकस्मादपि पितुर्जातयोः पश्यतानयोरियान् विशेषः, अस्येदं विचेष्टितं स च तथाविधो म-18 मनीषी महात्मेति, तदेष एव मनीषी प्रायो भविष्यति, अथवा भगवन्तमेव विशेषतः पृच्छामीति विचिन्त्याभिहितमनेन–भदन्त ! को है
पुनरस्यात्र नगरे मातापितरौ ? का वा ज्ञातय इति ?, भगवानाह-अस्त्यस्यैव क्षितिप्रतिष्ठितस्य भोक्ता कर्मविलासो महानरेन्द्रः, सोऽस्य | जनकः, तस्यैवानमहिषी शुभसुन्दरी नाम देवी सा जननी, तस्यैवेयमकुशलमाला भार्या अयं च पुरुषो बालाभिधानः सुत इति, तथा योऽयं मनीषिणः पार्श्ववर्ती पुरुषः सोऽपि तस्यैव सामान्यरूपाया देव्यास्तनयो मध्यमबुद्धिरभिधीयते, एतावदेवात्रेदं कुटुम्बकं, शेषज्ञा-1
तयस्तु देशान्तरेषु, अतः किं तद्वार्त्तया?, नृपतिराह-किमस्य नगरस्य कर्मविलासो भोक्ता न पुनरहं ?, भगवानाह-बाढं, राजोवाच 4-कथं ?, भगवानाह-समाकर्णय, यतस्तदाज्ञां सर्वेऽपि, भीतिकम्पितमानसाः । एते नागरिका नैव, लङ्घयन्ति कदाचन ॥१॥ तवापि |
राज्यहरणे, तहाने वा यथेच्छया । शक्तोऽसौ न तथा तेऽत्र, राजन्नाज्ञा प्रकाशते ॥ २॥ परमार्थेन तेनासौ, भोक्ताऽस्येत्यभिधीयते ॥२१५॥ यतः प्रभुत्वमाज्ञायां, प्रभूणां किल गीयते ॥ ३ ॥ नरपतिरुवाच-यद्येवं भगवन्नेष, कस्मान्नेहोपलभ्यते । सूरिणाऽभिहितं राजन् !,
Jain Education irriha
For Private & Personel Use Only
PAPEnelibrary.org