________________
उपमितौ तृ. ३- प्र.
॥ २१३ ॥
दितयोः कीदृशी ममाद्यापि शत्रुमर्दनता ?, ततो न युक्तं यद्यपि भगवत्समीपस्थैरेवंविधं जल्पितुं तथाऽपि दुष्टनिग्रहो राज्ञां धर्म इति कृत्वेदमभिधीयते तदाकर्णयत्वार्यः, सुबुद्धिनाऽभिहितं — समादिशतु देवो, राज्ञाऽभिहितम् - आदिष्टमेतत्तावद्भगवता यथैते स्पर्शनाकुशलमाले अनेन पुरुषेण सह यास्यतः, ततो नेदानीं तावदेते वधमर्हतः, केवलं समाज्ञापय त्वमेते यथा मद्विषयान्निर्गत्य युवाभ्यां दूरतो - ऽपि दूरं गन्तव्यं, मृतेऽप्यस्मिन् पुरुषे नास्माकीनविषये प्रवेष्टव्यम् इतरथा युवयोरस्माभिः शारीरो दण्डः करिष्यते, अथैवमप्यादिष्टे पुनरेते अस्मद्विषये प्रविशेतां ततो भवता निर्विचारं लोहयत्रेण पीडनीये, एवमतिदुष्टयोरारटतोरप्यनयोरुपरि नेपदपि दया विधेया, सुबुद्धिना चिन्तितं - अहो देवस्यानयोरुपर्यावेगातिशयः, यतोऽस्य तद्वशेन विस्मृतं तदपि 'हिंस्रकर्मणि न भवन्तं योक्ष्ये' इति मद्गोचरं वरप्रदानं, भवतु तथापीदमेव प्रतिबोधकारणं भगवन्तः कल्पयिष्यन्ति मम त्वाज्ञाप्रतिपत्तिरेव ज्यायसीति विचिन्त्याभिहितमनेन — यदाज्ञापयति देवः, ततः प्रवृत्तोऽसौ तयोराज्ञापनार्थ, सूरिणाऽभिहितं - महाराजालमनयोरेवं ज्ञापनेन, न स्वल्वेतयोरयमुन्मूलनोपायो, यतोऽन्तरङ्ग लोकजातीये एते स्पर्शनाकुशलमाले, अन्तरङ्ग लोकेषु च न प्रभवन्ति लोहयन्त्रादीनि, अगम्यरूपा हि ते बाह्यशस्त्राणां नृपतिरुवाच — भदन्त ! कस्तर्ह्यनयोरन्यो निर्दलनोपायो भविष्यति ?, भगवताऽभिहितं- अप्रमादाभिधानमन्तरङ्गमेव यत्रमनयोर्निर्दलनोपायः, तद्ध्येते साधवोऽनयोरेव निष्पेषणार्थमहर्निशं वाहयन्ति, नृपतिरुवाच — कानि पुनस्तस्याप्रमादाभिधानस्य यत्रस्योपकरणानि ?, भगवानाह — यान्येत एव साधवः प्रतिक्षणमनुशीलयन्ति, नृपतिरुवाच — कथं ?, भगवतोक्तं — समाकर्णय, "यावज्जीवमेते नाचरन्ति तनीयसीमपि " परपीडां न भाषन्ते सूक्ष्ममप्यलीकवचनं न गृह्णन्ति दन्तशोधनमात्रमप्यदत्तं धारयन्ति नवगुप्तिसनाथं ब्रह्मचर्यं वर्जयन्ति निःशेषतया “परिग्रहं न विदधते धर्मोपकरणशरीरयोरपि ममत्वबुद्धिं नासेवन्ते रजन्यां चतुर्भेदमप्याहारजातं आददते प्रवचनोपवर्णितं समस्तोपधि
Jain Education International
For Private & Personal Use Only
अप्रमादयन्त्रं
॥ २१३ ॥
www.jainelibrary.org