________________
उपमितौ तृ. ३-प्र.
॥ २१२ ॥
Jain Education I
धानस्य ग्रामस्य प्रत्यासन्नभूभागे पथि श्रान्तः पिपासितो दूरत एव द्रक्ष्यति बृहत्तडागं, ततः स्नानपानार्थं चलिष्यति तदभिमुखं, इतश्च पूर्वमेवागमिष्यति तत्र चण्डालमिथुनं, ततश्चण्डालस्तटाकतटवर्तिषु तरुगहनेषु पतत्रिगणमारणगणप्रवणः सन्नाटाटिष्यते, चाण्डाली पुनर्विजनमितिकृत्वा स्नानार्थमवतरिष्यति तडागं, ततोऽवतीर्णायां तस्यां प्राप्स्यत्येष तस्य तीरं, ततोऽमुमुपलभ्य सा मातङ्गी स्पृश्यपुरुषोऽयं कल| हयिष्यति मां सरोवरावतरणापराधमुद्दिश्येति भयेन निमङ्ख्यति सलिले, स्थास्यति पद्मखण्डे लीना, अयमपि मज्जनार्थमवतीर्यानाभोगेनैव यास्यति तत्समीपं भविष्यति तया सार्द्धमाश्लेषो वेदयिष्यते तदङ्गस्पर्श संजनिष्यते तस्योपरि लाम्पट्यमस्य कथयिष्यति साऽऽत्मनञ्चण्डालभावं तथापि करिष्यत्येष तस्याः शरीरग्रहणं बलामोटिकया, विधास्यते सा हाहारखं, तमाकर्ण्य धाविष्यति कुपितञ्चण्डालो, विलोकयिष्यत्येनं तथावस्थितं प्रज्वलिष्यति नितरां कोपानलेन संधास्यति कोदण्डे शिलीमुखं मारयिष्यति च, अरे रे दुरात्मन्नधमपुरुष ! पुरुषो भवेत्याहूय स चाण्डालः कम्पमानमेनमेकप्रहारेण प्रहरिष्यति, स च तदाऽध्यासितो रौद्रध्यानेनेति मृत्वा च यास्यति नरकेषु, तेभ्योऽप्युद्वृत्तस्ततः कुयोनिषु पुनर्नरकेष्वेवानन्तवाराः, एवं दुःखपरम्परायां स्थास्यत्यनन्तमपि कालं पतितः संसारचक्रे, नरपतिरुवाच — भदन्त ! अतिदारुणा इयमकुशलमाला स्पर्शनश्च यद्वशेन इदमस्य संपन्नं संपत्स्यते च भगवताऽभिहितं महाराज! किमत्रोच्यताम् ?, पर्याप्तमीदृश्या दारुणया, सुबुद्धिनाऽभिहितं — भदन्त ! किमेते स्पर्शनाकुशलमाले अस्यैव पुरुषस्य प्रभवतः आहोश्विदन्येषां प्राणिनां ?, भगवानाह — महामात्य ! केवलमत्र पुरुषेऽभिव्यक्तरूपे खल्वेते, परमार्थतः सर्वेषां सकर्मसंसारिप्राणिनां प्रभवत एव यतो योगिनीयमकुशलमाला योगेश्वरश्चायं स्पर्शनो, योगिनां च भवत्येवेदृशी शक्तिः यथा कचिदभिव्यक्तरूपता कचिद्नाविर्भूतता वर्तते, नृपतिनाऽभिहितम् — भगवन्ननयोः किमस्मगोचरोऽप्यस्ति प्रभावो ?, भगवानाह — बाढमस्ति, ततो राजा मत्रिणं प्रत्याह — सखे! पापयोरनयोरम
For Private & Personal Use Only
अकुशल
मालास्प
र्शनयोर्नि
ग्रहाज्ञा
॥ २१२ ॥
nelibrary.org