SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. ॥ २११॥ परचक्रमारिवैरप्रभृतयः सर्व एवोपद्रवाः समधिकयोजनशतात् दूरत एव भज्यन्ते तेषामपि भगवतां सन्निधाने निरुपक्रमकर्मपाशावपाशिताः क्षुद्रसत्त्वा न केवलं नोपशाम्यन्ति, किं तर्हि ?, तेषामेव भगवतां तीर्थकृतां क्षुद्रोपद्रवकरणे प्रवर्तन्ते, श्रूयन्ते हि तथाविधा भगवतामप्युपसर्गकारिणो गोपसङ्गमकादयः पापकर्माण इति, अन्यच्च तेषामेव भगवतां देवविरचितसमवसरणानामध्यासितसिंहासनचतुष्टयानां मूर्त्तिमात्रदर्शनादेव प्राणिनां किल विलीयन्ते रागादयो विदलति कर्मजालं प्रशाम्यन्ति वैरानुबन्धाः विच्छिद्यन्तेऽलीकस्नेहपाशाः प्रलीयते विपरीताभिनिवेशो यावता तत्रापि केषाञ्चिदभव्यतया निरुपक्रमकर्मघनपटलतिरस्कृतविवेकदीधितिप्रसराणां [वा] न केवलं पूर्वोक्तगुणलेशदेशोऽपि न संजायते, किं तर्हि ?, प्रादुर्भवन्त्येवंविधा भगवन्तमधिकृत्य कुविकल्पाः, यदुत-अहो सिद्धमत्स्यमिन्द्रजालम् अहो अस्य लोकवञ्चनचातुर्यम् अहो गाढमूढता लोकानां यदेतेनाप्यलीकवाचालेनालजालरचनाचतुरेण प्रतार्यन्त इति, तदेवं स्थिते महाराज! न किञ्चिदिदमत्यद्भुतं यदनेन पुरुषेण मत्सन्निधानेऽप्येवंविधमध्यवसितं, अयमपि हि निरुपक्रमयाऽनयाऽकुशलमालया स्वदेहवर्तिन्या | निजजनन्या प्रेर्यमाणोऽमुं स्पर्शनं सहचरमुररीकृत्यैवं चेष्टते, तन्नात्र भवद्भिविस्मयो विधेयः। सुबुद्धिनाऽभिहितं-भदन्त ! न किञ्चिदिदमाश्चर्य भगवदागमावदातधियाम् , एवंविध एव निरुपक्रमकर्मपरिणामो, नात्र सन्देहः, केवलमिदमिदानीमेव भगवत्पादप्रसादादेव देवः खल्वेवंविधपदार्थेषु पुण्यबुद्धिर्भविष्यति तेनैवं भगवन्तं विज्ञापयति, राजा सहर्षः प्राहः-चार्वभिहितं सखे! चारु अहो तेऽवसरभा-1 षिता, ततो राजैव भगवन्तं प्रत्याह-यथा कोऽस्य पुनः पुरुषस्य परिणामो भविष्यति ?, भगवताऽभिहित-इदानीं तावदेष दृष्टयुष्मकोपविपाकतया भयातिरेकग्रस्तहृदयो न किञ्चिच्चेतयते, गतेषु पुनरितो युष्मदादिषु प्रत्युपलब्धसंज्ञः सन्नेष भूयोऽप्यधिष्ठास्यते अनेन स्पर्शनेन, ततो युष्मद्भयादेव कुत्रचिन्निर्देशे यामीत्याकूतेन प्रपलायमानो महता केशेन यास्यत्येष कोल्लाकसन्निवेशे, तत्र च कर्मपूरकाभि बालस्य भ विष्यद्वृत्तं ॥२११॥ Jain Education For Private & Personel Use Only O nelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy