SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ निरुपक्रम उपमिती तृ. ३-५. ॥२१॥ कर्म ज्ञानालोकेन साक्षाद्भूतसमस्तभुवनवृत्तान्तः पश्यत्येव भगवाननेन यत्पूर्वमाचरितमासीत् यच्चेदानीमध्यवसितं, तथापि ममेदमत्र कौतुकं, यदुत-तत्पूर्वकमस्याचरणं कदाचिद्विचित्रतया सत्त्वाचरितस्य संभाव्येत, इदमधुनातनं पुनर्महदिन्द्रजालमिव प्रत्यक्षमपि ममाश्रद्धेयं प्रतिभासते, यतो भगवति रागादिविषधरोपशमवैनतेये सन्निहितेऽपि कथमतिक्लिष्टजन्तूनामप्येवंविधोऽध्यवसायः संभवेदिति?, भगवताऽभिहितं -महाराज! न कर्त्तव्योऽत्रातिविस्मयो, यतो नास्य पुरुषस्य तपस्विनो दोषोऽयं, नृपतिरुवाच-तर्हि कस्यायं दोषः ?, भगवानुवाचदृष्टस्त्वयाऽस्य शरीरान्निर्गत्य योऽयं बहिःस्थितः पुरुषः?, नृपतिनाऽभिहितं-सुष्टु दृष्टः, भगवानाह-यद्येवं ततोऽस्यैवायं समस्तोऽपि दोषो, यतोऽस्य वशवर्तिनाऽनेन पूर्वकमिदं समस्तमाचरितम् , अनेन हि वशीकृताः पुरुषास्तन्नास्त्येव किश्चिजगति पापं यन्नाचरन्ति, तस्मान्नात्र किश्चिदलौकिकं विचारातीतमश्रद्धेयं वा भवद्भिः संभावनीयं, नरपतिरुवाच-भदन्त ! यद्येवं ततः किमित्ययं पुरुषोऽमुं शरीरवशवर्त्तिनमात्मनोऽनर्थहेतुमपि धारयति स्म ?, भगवानाह-न जानात्येष वराकोऽस्य दुःशीलतां, परमरिपुरपि गृहीतोऽयमनेन स्निग्धबन्धुबुद्ध्या, नरपतिरुवाच-किमत्र पुनः कारणं?, भगवताऽभिहितं-अस्य शरीरे योगशक्तिद्वारेण कृतानुप्रवेशा अकुशलमाला नाम जननी, साऽत्र कारणं, किच-यदिदमतिदुर्जयमधुनैव स्पर्शनेन्द्रियमस्माभिः प्रतिपादितं तद्रूप एवायमस्य स्पर्शनाभिधानः पापवयस्यो वर्तते, अयं तु जघन्यपुरुषो बालः, इयं च तदभिधानैव अकुशलकर्ममालारूपैव जननी, तदत्र किं न सम्भाव्येत?, यञ्चोक्तं 'भगवत्सन्निधानेऽपि कथमेवंविधाध्यवसायप्रादुर्भाव' इति, तदप्यत एव नाश्चर्यबुद्ध्या ग्राह्य, यतो द्विभेदं जन्तूनां कर्म-सोपक्रम निरुपक्रमं च, तत्र सोपक्रममेव महापुरुषसन्निधानादिना क्षयक्षयोपशमभावं प्रतिपद्यते, न निरुपक्रम, तद्वशगाश्च जन्तवस्तत्समीपेऽपि विरूपकमाचरन्तः केन वार्यन्ते ?, तथाहि-येषामचिन्त्यपुण्यप्रागभारवतां तीर्थकृतामिह जगति गन्धहस्तिनामिव विचरतां विहारपवनगन्धादेव क्षुद्राशेषगजकल्पा दुर्भिक्षेति ॥२१०॥ 20 Jain Education Se n a For Private & Personel Use Only OMainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy