________________
उपमिती तृ. ३-प्र.
॥२०९॥
बालस्या
चरणं
पक्लेशविच्छेदकारिका भवदारिका । तावद्भागवती दीक्षा, दुर्लभैव सुनिर्मला ॥ ४ ॥ किंतु श्रावकधर्मोऽपि, भवतानवकारकः । अत्यन्तदुर्लभो ज्ञेयो, महामात्य! भवोदधौ ॥ ५॥ तदेष परमार्थः-उत्कृष्टधीमतां साक्षाद्वीर्यातिशययोगतः । प्रव्रज्या साधयत्युच्चैरेष तु व्यवधानतः ॥ ६॥ तदाकर्ण्य ततश्चित्ते, कृतं मध्यमबुद्धिना । युक्तो ममैषोऽनुष्ठातुं, गृहिधर्मो जिनोदितः ॥ ७ ॥ इतश्चाकुशलमालया स्पर्शनेन च मध्यवर्तितया विधुरितचित्तवृत्तेर्बालस्य विवर्धन्ते विपर्यासविकल्पाः, यदुत-अहो अस्या रूपातिशयः अहो सुकुमारता, अन्यच्चाभिमतोऽहमस्याः यतो विलोकयत्येषा मामर्दाक्षिविक्षेपैरेतदङ्गसङ्गसुखामृतासेकानुभवनेनाधुना मे सफलं भविष्यति जन्मेति, ततश्चैवंविधवितर्कपरम्परापर्याकुलीभूतचेतसस्तस्य विस्मृतमात्मस्वरूपं नष्टा शेषसंज्ञा जातं मदनकन्दलीग्रङ्गकतानमन्तःकरणं, ततोऽविचार्य कार्याकार्यम् अन्ध इव प्रहगृहीत इव तस्यामेव मदनकन्दल्यां निश्चलविन्यस्तनयनमानसः पश्यत एव तावतो जनसमुदायस्य शून्यपादपातं तदभिमुखं धावति स्म, ततः किमेतदिति उत्थितो जनहाहारवः, प्राप्तोऽसौ मदनकन्दलीसमीपं, ततः सावेगं क एष इति निरीक्षि|तोऽसौ नरपतिना, लक्षितं दृष्टिविकारेण तदाकूतं, स एवायं पापो बाल इति प्रत्यभिज्ञातोऽनेन, सखातास्य कोपारुणा दृष्टिः कृतं भा
सुरं वदनं मुक्तो हुङ्कारः, ततो बालस्यादृष्टविपाकतया प्रादुर्भूतभयातिरेकस्य नष्टो मदनज्वरः प्रत्यागता चेतना समुत्पन्नं दैन्यं, ततः सापश्चान्मुखं नष्टुं प्रवृत्तो यावच्छिथिलीभूतानि सन्धिबन्धनानि विलीयते शरीरं भग्नो गतिप्रसरः तथापि कतिचित्पदानि कथञ्चिद्गत्वा
प्रकम्पमानसमस्तगात्रः पतितोऽसौ भूतले, अत्रान्तरे प्रकटीभूतः स्पर्शनो निर्गतो भगवद्वग्रहात् गतो दूरदेशे स्थितस्तं प्रतीक्षमाणो, विशरतः कलकलो, लजितौ मनीषिमध्यमबुद्धी बालचरितेन, ततः कोऽऽस्यापि वराकस्योपरि कोप इति विचिन्त्य शान्तीभूतो राजा, पृष्टोs४ानेनाचार्यों यदुत-भगवन्नलौकिकमिदमस्य पुरुषस्य चेष्टितं, अतीतमिव विचारणायाः अश्रद्धेयमनुभूतवृत्तान्तानाम् , तथाहि-विमल
॥२०९॥
Jain Educatio
n
al
For Private & Personel Use Only
Khainelibrary.org